________________
श्रीजैन
श्री मलयसुन्दरी
कथा।
कथासंग्रहः
॥१९॥
प्रमोऽभूत ? कुमार्यव वा किमपि कपटं कृतम् ? । इति चिन्तयन्ती सा कुमारी प्रति द्वेषवती बभूव।। अथ कुमारः स्वपुरं प्राप्तस्तं हारं पितुरीकयत् । 'केनायं दत्तः ?' इति पित्रोक्ते वीरधवलपुत्रेण दत्तः इत्युक्तम् । तेनापि पद्यावतीदेव्यै दत्तः। अन्यदा कुमारेण स हारः स्वकण्ठे न्यवेशि। अथ कदाचित् कुमारेण तातं प्रणम्य पार्थे निविष्टे सति प्रतिहारनिवेदितः चन्द्रावतीशदूतः समेतः। स पृथ्वीपतिं प्रणम्य प्राह - "हे नरेन्द्र ! श्रीवीरधवलस्य अस्मत्स्वामिनो मलयसुन्दरी कन्याऽस्ति, सा सकलकलापात्रम् । 'यो बज्रसाराभिधानं धनुरारोपयिष्यति स तां परिणेष्यति' इति प्रतिज्ञया तत्कृते राज्ञा स्वयंवरः कारितः । सर्वे राजान आहूताः सन्ति। अद्य ज्येष्ठस्य कृष्णकादशी, आगामिन्यां चतुर्दश्यां स्वयंवरो भावी। मम चलितस्य बहवो दिना अभूवन, परं मार्गे मन्दीभूतस्तेन विलम्बोऽभूत् । अथ विलम्बो न सहते, कुमारः शीघ्रमादिश्यताम्, तथा च आगत्य तां कुमारी परिणयेत्” । राजा तच्छुत्वा हृष्टो दूतं वस्त्रादिभिः सत्कृत्य व्यसर्जयत् । कुमारोऽचिन्तयत्- 'मयेति ध्यायमानमासीत्-तां कथं पितृदत्तां परिणेष्यामि? परं देवमनुकूलमस्ति इति चिन्तयन्तं कुमारं प्रति राजा प्राह-हे वत्स ! सजीभव, सैन्यं च सजय; अचैव निशि प्रयाणं कुरु। लक्ष्मीपुञ्जहारः साथै ग्राहः। कुमारेण करौ शीर्षे कृत्वा प्रोक्तम्- “ताताऽऽदेशः प्रमाणं, परम् एका वार्ता विज्ञप्याऽस्ति-निशि मम सुप्तस्य सतः कोऽपि भूतोऽन्यो वा वस्त्रम् आभरणं
॥१९॥