SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्री मलबसुन्दरी कथा॥ कथासंग्रह ॥१८॥ द्वारपार्थस्थिता प्रच्छन्नं सर्व तच्छुत्वा कपाटयमाकृष्य तालकं ददौ । सा च कुमार्या दृष्टा उपलखिताब । कुमारेणोक्तम्- कोऽयं किं करोति ? । तवा भीतया प्रोक्तम्-हा! प्रमादो जातः । एषा मेऽपरमाता वाता पृण्वती न ज्ञाता ! । ज्ञायते किमपि भावि !। अथ कनकवत्या तत्स्वरूपं समधिकं राज्ञोऽग्रे कथितम् । राजा रक्षकैः सह द्वारे समेतः । तदा कुमारी कम्पमानाकी कुमारं प्रति प्राह-दैवेन किं कृतम्? । मुधा त्वादृशस्य नररत्नस्य महाकष्टमुपस्थितम् । किं क्रियते ?, क गम्यते ?, द्वारमेव रुद्धम् । कुमारेणोक्तम्-मा भैषी:, भव्यमेव भावि' । इत्युक्त्वा एतन्मातुः सदृशं रूपं मे भवतु इति ध्यात्वा मिलितयोगगुटिका शीर्षाल्लात्वा मुखे क्षिप्ता । तत्क्षणं स चम्पकमालादेवीसद्दशरूपो जातः । राजा तालकं भक्त्वा मध्ये प्रविष्टः । तत्र च अभ्युत्थानं सहसा कुर्वती मातृसहिता कुमारी दृष्टा । राजा विस्मितः । कनकवी वीक्ष्य शिरो धूनितम् । साऽसत्यवादिनी लजयाऽधोमुखी बभूव । आरक्षकादिकरपि सा हसिता गता। राजाऽपि स्वस्थानं प्राप। सर्वेषु गतेषु सत्सु कुमारः स्वस्वरूपं पुनः कृत्वा तां प्रति प्राह; अथाहं गच्छामि । तदा तया लक्ष्मीपुञ्जहारो गलादुत्तार्य तत्कण्ठे क्षिप्तः, 'एषा मे वरमाला ज्ञेया' इत्युक्तं च । सुखिनः सन्तु ते पन्थानः' इति तया विसृष्टः। ततो निर्गत्य स्वसार्थे मिलितः स्वनगरं ययौ। अथ कनकवती 'कूटवादिनी' इति सर्वैरपि निन्दिताऽचिन्तयत्-'किमयं कोऽपि मे ॥१८॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy