________________
श्रीजैन कथासंग्रहः
श्री मलबसुन्दरी
कथा॥
॥१७॥
कास्ति? । तयोक्तम्-क्षणमत्र विश्रम्यताम्, अयमपि जनस्तव भक्तिकारकोऽस्तु' !। तेनोक्तम्..'लेखमर्पयित्वा बलितः सर्व रम्यं विधास्ये' । ततस्तया दर्शितो मार्गः । अग्रे गत्वा
उपरितनाऽपवरकान्त:स्थितां योगिनीमिव तमेव हृदि मन्त्रसदृशं स्मरन्ती तां कन्यां स ददर्श । साऽपि सानन्दा तं दुका सहसोत्तस्थी । आसनं दत्त्वा तमूचे- 'अहो ते धीरता! । कथमत्र सुरक्षिते स्थाने समागमनं जातम्' ? । सोऽवादीत्- "उत्कटकण्टके कोटयर्षणकष्टानि हृदि न चिन्तयति । असदशरसविवशमतिविंशत्यलिः केतकीकुसुमम्"॥१॥"त्वया च स्वस्वरूपमुक्तम् । मदीयं शृणुअहं पृथ्वीस्थानपुरे सूरपालनृपस्य पुत्रः पद्यावतीकुक्षिजातो महाबलाभिधानोऽस्मि। साऽवादीत्-'तर्हि यदा त्वं पूर्व मया दहस्तदेव पूर्वभवसम्बन्धेन केनापि प्रेरितया मनःसाक्ष्यं वृतोऽसि । साम्प्रतं गान्धर्व विवाहेन अङ्गीकुरुब । तदा तेनोक्तम्-कुलकन्यानां 'प्रच्छन्नो विवाहो न शोभते, इति धीरत्वं मज । अहं तवोपक्रम करिज्ये यथा स्तोकदिनैः पितृदत्तां त्वां परिणेच्यामि। "विधत्ते यद्विधिस्तत् स्याद् न स्वाद हदयचिन्तितम् । एवमेवोत्सुकं चित्तमुपायांश्चिन्तयेद् बहून्"॥१॥अयं श्लोकस्त्वया चिन्तानिवारणाय सदा चिन्त्यः । तया प्रपन्नम् । यावद् एवं तौ प्रीत्या वातां कुरुतस्तावता कनकवती १ नुमः । २ उपक्रमम्-आरम्मम्-उपाथम् ।
॥१॥