________________
श्रीजैन कथासंग्रहः
॥१६॥
'अहो ! लावण्यलीलाऽस्य कटाक्षं रूपमन्द्भुतम् । सा धन्या मन्यते कन्या यस्या भर्ता भवेदसी" ॥ १ ॥ एवं चिन्तयन्तीं निर्निमेषदृशा च पश्यन्तीं कुमारोऽपि सहसा ददर्श । दध्यौ च "केयं किं देवता काsपि मानवीत्वं समागता ? । परिणीताऽथवा कन्या ? लावण्यामृतवाहिनी” ॥ १ ॥ तस्मिन्नेवं चिन्तयति सति सा कुमारी च्छेकतया कागदे स्वरूपं लिखित्वा तत्सम्मुखं विक्षेप । सोऽपि तं वाचयामास - अहं श्रीवीरभवलपुत्री मलयसुन्दरी कन्याऽस्मि । त्वां दृष्ट्वा त्वामेव वरम् अभिलषामि । इति वाचयन्तं कोऽपि त्वरितमागत्य तदीयमत्यों बभाषे 'कुमार ! शीघ्रमागम्यताम् । सार्थश्चलति, तस्मात् शीघ्रमागम्यताम् । ततः कुमारस्तेन सहितः पश्चाद् विलोकयन् स्थानं यौ । ततो मन्त्रिणां सज्जतां कुर्वतामेव रात्रिमुखं जातम् । अथ अर्धरात्रिमतिक्रम्य चलिष्यते इति वार्ता मन्त्रिषु कुर्वत्सु कुमारेण चिन्तितम्-तया तु च्छेकतया निजस्वरूपं ज्ञापितं, परं मया तस्याश्चेतसि निर्वृतिमनुत्पाद्य कथं गम्यते ?, अत एकदा तत्र गन्तव्यमेव । इति विचिन्त्य कुमारः शीघ्रं राजभुवनमागम्य विद्युदुत्क्षेपकरणेन प्राकारमुल्लङ्घ्य मध्यमाजगाम । तत्रासौ नृपवल्लभया 'कनकवत्या दृष्टः । प्रोक्तश्च - कस्त्वं भोः ? । तेनोक्तम् अहं लेखहारको मलयसुन्दर्याः, लेखं दास्यामि ताम्, सा १ चातुर्येण २ शान्तिम् । ३ मलयसुन्दरीमातुः सपत्न्या ।
श्री मलयसुन्दरी
कथा ।।
॥१६॥