SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१६॥ 'अहो ! लावण्यलीलाऽस्य कटाक्षं रूपमन्द्भुतम् । सा धन्या मन्यते कन्या यस्या भर्ता भवेदसी" ॥ १ ॥ एवं चिन्तयन्तीं निर्निमेषदृशा च पश्यन्तीं कुमारोऽपि सहसा ददर्श । दध्यौ च "केयं किं देवता काsपि मानवीत्वं समागता ? । परिणीताऽथवा कन्या ? लावण्यामृतवाहिनी” ॥ १ ॥ तस्मिन्नेवं चिन्तयति सति सा कुमारी च्छेकतया कागदे स्वरूपं लिखित्वा तत्सम्मुखं विक्षेप । सोऽपि तं वाचयामास - अहं श्रीवीरभवलपुत्री मलयसुन्दरी कन्याऽस्मि । त्वां दृष्ट्वा त्वामेव वरम् अभिलषामि । इति वाचयन्तं कोऽपि त्वरितमागत्य तदीयमत्यों बभाषे 'कुमार ! शीघ्रमागम्यताम् । सार्थश्चलति, तस्मात् शीघ्रमागम्यताम् । ततः कुमारस्तेन सहितः पश्चाद् विलोकयन् स्थानं यौ । ततो मन्त्रिणां सज्जतां कुर्वतामेव रात्रिमुखं जातम् । अथ अर्धरात्रिमतिक्रम्य चलिष्यते इति वार्ता मन्त्रिषु कुर्वत्सु कुमारेण चिन्तितम्-तया तु च्छेकतया निजस्वरूपं ज्ञापितं, परं मया तस्याश्चेतसि निर्वृतिमनुत्पाद्य कथं गम्यते ?, अत एकदा तत्र गन्तव्यमेव । इति विचिन्त्य कुमारः शीघ्रं राजभुवनमागम्य विद्युदुत्क्षेपकरणेन प्राकारमुल्लङ्घ्य मध्यमाजगाम । तत्रासौ नृपवल्लभया 'कनकवत्या दृष्टः । प्रोक्तश्च - कस्त्वं भोः ? । तेनोक्तम् अहं लेखहारको मलयसुन्दर्याः, लेखं दास्यामि ताम्, सा १ चातुर्येण २ शान्तिम् । ३ मलयसुन्दरीमातुः सपत्न्या । श्री मलयसुन्दरी कथा ।। ॥१६॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy