________________
श्रीजैन
श्री मलयसुन्दरी
कथा॥
कथासंग्रहः
॥१५॥
॥ अथ द्वितीय उल्लासः॥ अथ सा मलयसुन्दरी यौवनं वनं संश्रिता कल्पलतेव कामपि अवक्तव्यां लीलां बभार । इतच, अत्रैव भरतेजादेशे पृथ्वीस्थानं नाम नगरम् । तत्र यशःपूरबन्धुरः सूरपालः पृथ्वीपतिः। तस्य पद्यावती प्रिया। तत्कुक्षिसमुद्भूतः प्रभूतगुणो महाबलो नाम कुमारः। स सर्वकलाकुशलस्तारुण्यं प्राप। अन्यदा कोऽपि सिद्धपुरुषस्तस्य सङ्गतः कुमारेणाऽऽवर्जितः । तेन रूपपरावर्तकारकाः पुनः स्वरूपकारकाच औषधयोगा उपदिष्टाः । कुमारेण तान् योगान् मेलयित्वा गुटिकाः कृत्वा मुक्ताः । सिद्धो'ना विसृष्टः । अन्यदा सूरपालेन राज्ञा स्वप्रधानपुरुषाः कस्मैचित् कार्याय चन्द्रावती पुरीं प्रति गमनायाऽऽदिष्टाः। तदा महाबलकुमारेण देशवीक्षणाय राजा विज्ञप्तः । आग्रहेण च पितरं मातरं च परिज्ञाप्य तैः सह चलितचन्द्रावर्ती ययौ । गुप्तवृत्त्यैव तिष्ठन् तैः सह वीरधवलनृपसभां गतः । राज्ञा ते सम्मानिताः । पृष्टं च-'कोऽयं 'सदाकारः कुमारः ? । एकेन केनचित् प्रोक्तम्-ममायं प्राता । ततः सर्वेऽप्युत्थिताः । उत्तारकस्थान प्राप्ताः । अथ कुमारः स्वल्पपरिकरः पुरं विलोकयन् मलयसुन्दरीगृहसत्कगवाक्षस्याधः प्राप्तः । तदा कुमारी गवाक्षान्तिकस्थितं 'रूपनिर्जितमकरध्वजं वीक्ष्य मनसि चिन्तयामास१नरः । २ सुन्दराकारः।।सुरूपविजतकामदेवम् ।
॥१५॥