SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी कथा॥ ॥१४॥ प्राप्ता । ततो राज्ञा दुःखस्वरूपं कथितम् । अथ राजा तत्काष्ठफालीद्वयं गोलातटे भट्टारिकादेवीगृहे मोचयित्वा भद्रहस्तिनीमारुह्य देवीं वामपा निवेश्य च्छत्रं प्रियमाणो, वाघेषु वाद्यमानेषु महोत्सवेषु जायमानेषु प्वजपटभूषितं पुरं प्रविवेश । सौधं समेतः, वर्धापनानि जातानि । तस्मिन्नेव निशीथे देवी गर्भ दधौ। पूर्णेषु दिनेषु पुत्र-पुत्रीरूपं युगलं जातम् । राज्ञा महोत्सवाः कारिताः' । नामकरणदिवसे सर्वजनानां पुरतो भोजनानन्तरं प्रोक्तम्-'मलयादेव्या इदं युगलं दत्तमिति तस्या एव नाम्ना नाम दीयते' । इत्युक्त्वा पुत्रस्य 'मलयकेतुः' पुत्र्याश्च 'मलयसुन्दरी' इति नाम दत्तम् । अथ वर्धमानौ तौ मातापित्रोर्विश्वस्यापिच प्रीतिहेतवे जाती। समये पण्डितसमीपे स्थापितौ। स्तोककालेनापि सर्वकलापारीणौ जाती। ॥ इति श्रीअलगच्छे श्रीमाणिक्यसुन्दरसूरिकृतायां मलयसुन्दरीकथायां मलयसुन्दरी-जन्मवर्णनो नाम प्रथम उल्लासः ।। ॥१४॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy