________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कबा॥
॥१३॥
प्राह-'देवदर्शनं निष्फलं नस्यात्, अत: किञ्चिद् याचस्व । मयोक्तम्-'मम अपत्यं नास्ति' । तयोक्तम्'पुत्र-पुत्रीरूपं युगलं ते भावि । इयन्ति दिनानि तेन भूतेन सन्ततिरोधः कृतोऽभूत् । अथ तं भतं भवतोरुपद्रवं कुर्वन्तं निवारयिष्यामि। अहमत्रैव पर्वते प्रभुभक्त्या तिष्ठामि, 'मलया' इति द्वितीयं नाम बिमर्मि। इमं लक्ष्मीपुजाभिषं हारं गृहाण । महाप्रभावोऽस्यास्ति' । इत्युक्त्वा मम कण्ठे सा हारं चिक्षेप
यावदहं किचित् पुनः पृच्छामि तावद् एका खेचरी चेटीयुक्ता प्राप्ता, चक्रेश्वरीच अदृष्टाऽभूत् । खेचरी मां प्रति प्राह-'सुन्दरि! का त्वम् ?'। मयाऽश्रूणि मुञ्चन्त्या स्वस्वरूपं कथितम् । साऽवादीद्-'अहमत्र विद्यां साधयितुं प्राप्ताऽस्मि। परं तव दुःखिताया उपकारम् अकृत्वा मम विद्यासिद्धिर्न भवेत्। मम भर्ता चक्षणान्तरे समेष्यति, स त्वां सुरूपां दृष्टा शीलं खण्डयिष्यति, मम च सपत्नीजं दुःखं भावि । अत आगच्छ, यथा ते किचिद् भव्यं करोमि । इत्युक्त्वा बाहौ धृत्वा नदीतीरं नीता। एषा मे किं करिष्यति ?' इति ध्यायन्या मम शरीरे सर्वत्र चन्दनलेपः कृतः, पुष्पमाला चारोपिता । तत्र महत्काष्ठमेकं विद्याशक्त्या विदार्य सम्पुटद्वयं चक्रे । एकस्मिन्नहं स्थापिता, द्वितीयम् उपरि दत्तम् । ततः परं गर्भस्थिता इव न जाने किमपि जातम् । यूयमेवात्र दृष्टाः । तदा सुबुद्धिमन्त्रिणा प्रोक्तम्- 'नूनं खेचर्या स्वस्याः सपत्नीशच्या स्वामिनी काठमध्ये निक्षिप्य पर्वतोत्तरनदीप्रवाहे प्रेरिता। आत्मीयपुण्यप्रभावाद् अत्रैव
॥१॥