________________
श्रीजैन कथासंग्रह
श्री मलयसुन्दरी
कथा॥
॥१२॥
संसारमकल्पद्रो ! विचोदाणबान्धव ! ॥२॥ देव ! त्वं दुःखदावामिततानामेकवारिदः । मोहान्धकारमूडानामेकदीपस्त्वमेव हि ॥३॥त्वां प्यावन्तः स्तुवन्तश्च पूजयन्त देहिनः । धन्यास्ते जगूहुदैहाद् मनो-वाग्-वपुर्ण फलम्॥४॥
"एवं मवि स्तुवत्यां काऽपि दिव्यरूपाखी समेता । मां प्राह हे सुन्दरि ! श्रीऋषभदेवस्याहं शासनदेवता बकेवरी देवी तब जिनभक्त्या तुष्टाऽस्मि । मया प्रोक्तम्-'तहिं कथय केन कुत्राऽहम् आनीतास्मि? साऽवादीत-शृणु, चन्द्रावतीशवीरमवलस्य त्वत्रियस्य वीरपालो प्राताऽभूत् । स राज्यलुब्बो नृपं हन्तुमिच्छति। अन्यदा घातकीभूय भूपस्य मन्दिर प्रविष्टो नृपं प्रति शस्त्रीप्रहारं मुमोच। राज्ञा प्रहारं बजयित्वा स.एव हतः, मृत्वा प्रचण्डनामा ममाग्नुचरो भूतोऽभूत् । स पूर्ववैरं स्मृत्वा बीरधवलोपरि वे पत्ते, परं तस्य पुण्यस्य प्रभावतश्छलं न लभते । ततचिन्तितं तेन-१'देव्यां प्रेमबन्धोऽस्य बाडमस्ति इति तामेव हरामि, ततः स्वयमेवासी मरिष्यति। इति ध्यात्वा च्छलं प्राप्य तेन भूतेन हुत्वा अत्र मलयपर्वते त्वं मुक्ताऽसि । स पुनश्चन्द्रावत्यां गत्वा तव शयनीये मृतकरूपं कृत्वा स्थितोऽस्ति। राजा त्वद्रूपं दृष्ट्वा महादुःखं प्राप्तोऽस्ति । मया प्रोक्तम्- 'हे देवि! कथय, मम जीवन्त्याः पुनर्भूपतिमिलनं भविष्यति?' साप्राह-'सप्त प्रहरान् यावत् तव तस्य च वियोगो भावी । पुनर्देवी मां
॥१२॥