________________
श्रीजेन
कथासंग्रहः
॥११॥
1
• राज्ञि लोके च पश्यति सति बन्धेभ्यश्छोटितम् । ततः सम्पुटसद्दशं तद् दृष्टम् । सम्पुटेऽपि विघटिते सति सर्वाङ्गविलिप्ता दिव्यपुष्पमालाञ्चिता दिव्यहारभूषिता देवी चम्पकमाला निद्रां प्राप्ता दृष्टा । अहो ! चित्रं चित्रम् ! इति सर्वोऽप्यवादीत् । राजाऽपि विस्मयं प्राप्तः प्राह- 'भोः ! शवस्थानं वीक्ष्यताम्' । तैस्तत्र गत्वा सा शिबिका यावद् उद्घाटिता तावता शबं हस्तौ घर्षयद्, दन्तैर्दन्तान् पिंषद्, अट्टाट्टहासं कुर्वद् नभसा उड्डीय जगाम । ते भयभ्रान्तास्तत्स्वरूपं नृपाग्रे प्रोचुः । ततो देवी प्रबुद्धा सती उन्मीलितलोचना जाता । राजा प्रमोदभरभासुरो जातः । देवी प्रोत्थाय प्राह- 'प्राणेश ! किं यूयमत्र ?, किं क्लिन्नानि वस्त्राणि ? को वा मृतः ?' । राजा प्राह-सर्व कथयिष्यते, परं त्वं स्वस्वरूपं निवेदय । ततः सर्वः कोऽपि वटवृक्षतले निविष्टः । अथ राज्ञी वक्तुं प्रवृत्ता- 'हे नाथ ! मदीयं दक्षिणनेत्रं स्फुरितम् इति त्वमपि जानासि । ततोऽहं बने भवने च क्वापि रतिमप्राप्ता पल्यङ्के सुप्ता। सखी पत्रार्थं प्रहिता । यावत् किञ्चिद् निद्रा समेति तावत् केनाप्युत्पाटिता, क्वाऽपि च शृङ्गे मुक्ता । स च दुष्टो मुक्त्वा मयि पश्यन्त्यामेव क्वापि गतः । अहं शिलातलादुत्थाय मनसि विविधां चिन्तां कुर्वाणा दिशामेकां गृहीत्वा प्रस्थिता । अग्रे जिनमन्दिरं दृष्ट्वा मध्ये गता । तत्र श्रीऋषभप्रभुः स्तुतः- अहो ! अमेघजा वृष्टिः अहोऽकुसुमजं फलम् । अहो ! पुराकृतं पुण्यं यद् दृष्टो नाथ ! लोचनैः ॥ १ ॥ नमस्तुभ्यं जगन्नाथ ! त्रैलोक्याम्भोजभास्कर ! ।
श्री मलयसुन्दरी
कथा ।।
॥११॥