SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१०॥ कथमस्याः प्राणा एव गता: ? । प्रियास्नेहेन भूपोऽपि मरिष्यति अपुत्रः, पृथ्वी निराधारा भविष्यति । तदा सुबुद्धिमन्त्रिणोक्तम्- कथञ्चिद् राजा कालविलम्बं कार्यते विषविकारकथनेन । इति विमृश्य तैस्तथैवोक्तं नृपाग्रे । राजा हष्टोऽवादीत्- 'तदा जितं जितम् !, अरे ! मणीन् मान्त्रिकांश्च आनयत' । एवं प्रतीकारेषु क्रियमाणेषु देवीम् एकान्ते स्थापयित्वा दिनशेषं रात्रिं च अतिक्रमयामासुः । प्रातर्भूपो देवीं तादृशामेव दृष्ट्वा 'मृतैव' इति मत्वा मूर्च्छितः, चन्दनजलेन सिक्तः सचेतनो बाढं विललाप । विलप्य मन्त्रिणः प्रति प्राह- 'भो ! गोलानदीतटे चितां रचयत, अहमपि देव्या सह अग्निं प्रवेक्ष्यामि' । मन्त्रिणो रुदन्तः पादयोर्लगित्वा प्राहु:- 'प्रभो! केयम् अधीरता ?, त्वयि विनष्टे सर्वं विसंस्थुलं राज्यसूत्रं विभावि !' । राज्ञोक्तम्- 'यद् भावि तद् भवतु, परं मया तु अस्या अग्रे जीवनं मरणं च सहैव प्रतिपन्नम्' । एवं सर्व परिज्ञाप्य मृत्तदेवीशिबिकया सार्धं राजा चचाल। पौरलोका उरस्ताडं रुदन्ति स्म । नृपस्य परिच्छदो नदीतटं प्राप । तत्र चिता स्थापिता । राज्ञा स्नानं कृतम् । अन्येऽपि बहवोऽग्निप्रवेशाय सज्जीभूताः । तस्मिन्नवसरे प्रवाहपतितं बन्धनैर्बद्धं महत् स्थूलं काष्ठमेकमागच्छद् दृष्टम् । मन्त्रिभिस्तारका भाषिता:- ‘भोः ! काष्ठमेतत् कृषत, चिताकाष्ठेषु कार्ये समेति' । तैस्तत् काष्ठं जलाद् बहिरानीतम् । श्री मलयसुन्दरी कथा ॥ ॥१०॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy