________________
श्रीजैन कथासंग्रहः
॥९॥
पुत्रप्राप्तिः स्यात् । यतः- “उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः । उद्यमात् कृमिकीटोऽपि महतो डुमान् ॥ १ ॥
राज्ञा प्रोक्तम्- भव्यमुक्तं, मन्त्रिषु राज्यभारं निवेश्य त्वया सह कमपि देवम् आराधयिष्यामि । यावत् तौ इति वार्ता कुरुतस्तावद् देव्या दक्षिणनेत्रं स्फुरितम्, साऽत्याकुला अभूत् । राज्ञोक्तम्- 'देवि ! किं ते जातम् ?' । सा प्राह- 'प्राणेश ! न जाने किमपि । भावि ! शरीरे कुचेष्टा अरतिश्च मृत्यवे महाकष्टाय वा विचार्यते' । राजा प्राह-यद्भावि तद् भवतु, मम जीवितं मरणं वा स्वयैव सह, मा खेदं कुरु । इत्युक्त्वा भोजनाब उत्तस्थौ । भुक्त्वा क्षणं विश्रम्य राजा सभां भूषयति स्म । किं भावि ? इति देवीस्वरूपं चिन्तयति तावता काऽपि चेटी रुदती शीघ्रं समेत्य गद्रदस्वरेण नृपं प्रति- 'हे प्रभो ! देवी चम्पकमाला गृहे गृहवाटिकायाम् अन्यत्र च कापि धृतिमलभमाना आगत्य पल्यङ्के निविष्टा । तया च अहं पत्रार्थ प्रेषिता । यावद् आगत्य पश्यामि तावता देवी पल्यङ्के सुप्ता दृष्टा । परं न वक्ति, न च चेष्टां कुरुते । न जाने किं जातम् ?' । राजा तच्छ्रुत्वा अत्याकुलः समुत्थाय स्खलत्पादः शीघ्रमावासान्तर्ययौ । वैद्य - ज्योतिषिकादयो मिलिताः, बहवः प्रतीकाराः प्रारब्धाः, परं सर्वेऽपि वृथैव जाताः । काष्ठतुल्यामेव तां दृष्ट्वा सर्वे वैद्या निराशा जाताः । तत एकान्ते मिलित्वा मन्त्रिणोऽन्योन्यं प्रोचुः - 'किमिदम् ?
श्री मलयसुन्दरी
कथा ॥
॥९॥