________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कथा॥
॥८॥
· वाकवयेद् इति मया स्वयमेव स्वस्वामिने विज्ञसमस्ति।
ततो वीरधवलेन राज्ञा बहुमानं दत्त्वा श्रेष्ठी विसृष्टो गृहं ययौ। राजा अनपत्यत्वाद् मनसि पुत्रचिन्तया अत्याकुलः सभां विसृज्य आवासमध्ये ययौ। तत्र चम्पकमालया देव्या पृष्टम्- 'प्राणेश ! किं मुखे विच्छायता' ? । राज्ञा तदये गुणवर्मप्रोक्तं वृत्तं कथयित्वा प्रोक्तम्-प्रिये ! पुत्रं विना विजयचन्द्रवत् पितृराज्यं को पालयति ? गुणवर्मवत् पितुरर्थे स्वजीवं सन्देहे कः पातयति ? लोभाकरमिव को जनकं सजं करोति ? अतोऽहमपि अपुत्रत्वाचिन्तातुरतया विच्छायोऽस्मि । देवी प्राह- 'प्राणेश! एषा चिन्ता मम प्रासादे सदैव वर्तते, परं न वदामि। सत्यमेवेदम्-
.. साहसवंत सुजाण नर जहिं पुत्तूंमन हुंति । थंभ विहूणा गेह जिम धबकडइंति पडंति ॥१॥रमलि करतो रंगभरि जे नवि देशइ बाल। माणस मार्नु डाडसी किम किम गमैति काल ॥२॥ आंखडीये अणियालडी वयणविकास परंतु । लहुली करउंजोयतां दीहां जंति तुजंतु ॥३॥राजाऽपि प्राह
नमो दिनेशेन नयेन विक्रमो वनं मृगेन्द्रेण निशीथमिन्दुना। प्रतापलक्ष्मीर्बल-कान्तिशालिना विना न पुत्रेण विभाति नः कुलम् ॥१॥ ततो देव्या प्रोक्तम्-'कोऽपि सप्रत्ययो देव आराध्यते । ततः
॥८॥