SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी कथा॥ ॥७॥ 'एतन्नगरप्रत्यासन्ने एकजनाम्नि पर्वते सुगुप्ता कूपिका वर्तते । तन्मध्ये बन्धमोक्षकारकं जलं वर्तते । देवताधिष्ठितम् । कूपिकाया द्वयोः पार्श्वयोद्वी पर्वतौ वर्तेते। तौ च नेत्रपद्ये इव मीलनोन्मीलनं कुरुतः, तत्र सलिलग्राहीचे भीतस्तदास मृत एव । एतौ द्वौ यदा उघटेते तदा यदि पुत्र एव पितुरर्थे कूपिकान्तः प्रविश्य पानीयमानीय बहिनिर्गच्छति, तेन च पानीयेन पुत्रो यदि स्वयं बद्धं निजपितरं त्रीन् वारान् आच्छोटयेत् तर्हि बन्धमोक्षो भवेत् । एषा पद्धतिस्त्वयैव सेत्स्यति । इति विजयोक्तं गुणवर्मणा सर्व प्रतिपन्नम् ।ततो द्वावपि तौ तत्र पर्वते कूपिकापाचँ गतौ । पर्वतद्वये विघटिते सति मञ्चिकारज्जुप्रयोगेण मध्ये प्रविश्य गुणवर्मणा निर्भयेन सता तत्पानीयेन पात्रमापूरितम् । ततो विजयेन स बहिनिष्काशितः । ततस्तौ तुरगरूपं कृत्वोपस्थितं राक्षसमेव आरुह शीघ्रं चन्द्रावर्ती प्राप्तौ । गुणवर्मणा स्वपिता स्वयं जलेनाच्छोटा सजीकृतः। लोभनन्दी तथैव स्थितः । गुणवर्मणो महोपरोधेन विजयेन तोडुकस्थानाद् गृहमध्यमानीतः । स तु व्यथाऽदितः विरसं रटन् तथैवास्थाद, यतः पुत्रं विना कथञ्चन बन्धमोक्षो नैवाऽभूत् । ततो गुणवर्मणा रसतुम्बकं विजयाय दत्तम् । तेनापि तुष्टेन तस्मै प्रदत्तम्। एवं विजयस्तदाग्रहात् प्रीत्या कियन्ति दिनानि स्थित्वा स्वस्थानं ययौ। सोऽहं गुणवर्मा लोभाकरस्य पुत्रोऽस्मि । मत्पितृपितृव्याभ्यां न्यासापहारकरणाऽपराधः कृतोऽस्ति, हे प्रभो! त्वं क्षमस्व । अन्यः कोऽपि अधिकं न्यूनं ॥७॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy