SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी कथा॥ ॥७॥ 'एतन्नगरप्रत्यासन्ने एकजनाम्नि पर्वते सुगुप्ता कूपिका वर्तते । तन्मध्ये बन्धमोक्षकारकं जलं वर्तते । देवताधिष्ठितम् । कूपिकाया द्वयोः पार्श्वयोद्वी पर्वतौ वर्तेते। तौ च नेत्रपद्ये इव मीलनोन्मीलनं कुरुतः, तत्र सलिलग्राहीचे भीतस्तदास मृत एव । एतौ द्वौ यदा उघटेते तदा यदि पुत्र एव पितुरर्थे कूपिकान्तः प्रविश्य पानीयमानीय बहिनिर्गच्छति, तेन च पानीयेन पुत्रो यदि स्वयं बद्धं निजपितरं त्रीन् वारान् आच्छोटयेत् तर्हि बन्धमोक्षो भवेत् । एषा पद्धतिस्त्वयैव सेत्स्यति । इति विजयोक्तं गुणवर्मणा सर्व प्रतिपन्नम् ।ततो द्वावपि तौ तत्र पर्वते कूपिकापाचँ गतौ । पर्वतद्वये विघटिते सति मञ्चिकारज्जुप्रयोगेण मध्ये प्रविश्य गुणवर्मणा निर्भयेन सता तत्पानीयेन पात्रमापूरितम् । ततो विजयेन स बहिनिष्काशितः । ततस्तौ तुरगरूपं कृत्वोपस्थितं राक्षसमेव आरुह शीघ्रं चन्द्रावर्ती प्राप्तौ । गुणवर्मणा स्वपिता स्वयं जलेनाच्छोटा सजीकृतः। लोभनन्दी तथैव स्थितः । गुणवर्मणो महोपरोधेन विजयेन तोडुकस्थानाद् गृहमध्यमानीतः । स तु व्यथाऽदितः विरसं रटन् तथैवास्थाद, यतः पुत्रं विना कथञ्चन बन्धमोक्षो नैवाऽभूत् । ततो गुणवर्मणा रसतुम्बकं विजयाय दत्तम् । तेनापि तुष्टेन तस्मै प्रदत्तम्। एवं विजयस्तदाग्रहात् प्रीत्या कियन्ति दिनानि स्थित्वा स्वस्थानं ययौ। सोऽहं गुणवर्मा लोभाकरस्य पुत्रोऽस्मि । मत्पितृपितृव्याभ्यां न्यासापहारकरणाऽपराधः कृतोऽस्ति, हे प्रभो! त्वं क्षमस्व । अन्यः कोऽपि अधिकं न्यूनं ॥७॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy