________________
कथासंग्रहः
श्री मलयसुन्दरी
कथा॥
॥६॥
पादाभ्यासामग्री मेलयित्वा विजयां प्रोच्य गृहमध्ये गुप्तस्थाने स्थितौ । तावता रात्री राक्षस: 'कापि मानुषो गन्यः' इति ब्रुवंस्तत्रागात् । विजयां प्रोवाच-'भद्रे! किमु क्वापि मनुष्यस्तिष्ठति ?'। सा चेइह अहं मानुषी, अन्यो मानुषसम्भवः कुतः ? । ततः प्रसुप्तस्य राक्षसस्य पादौ वधूमिषाद् दक्षो गुणवर्मा तस्याऽलक्ष्यो निर्भीको गाढं गाढं मर्दयामास। अथ मनुष्यगन्धेन पुनः पुनरुत्तिष्ठन्नपि राक्षसो गुणवर्मणा गाढचरणमर्दनेन स्वापितः । तावता विजयचन्द्रेण सहस्रजापं कृत्वा खड्गं धृत्वा प्रकटीभूय राक्षसो हक्कितः । गुणवर्माऽपि नृवेषं चक्रे । ततस्तौ दृष्टा राक्षस उत्थितोऽपि वशीकरणविद्यया वश एव जातः । प्रोचे च-'भो ! भक्तोः किररोऽस्मि । यत् कार्य तत् कथ्यताम्। विजयचन्द्रेणोक्तम्-मदीयं नगरं वासय । तेन तत्क्षणं सर्वे लोका आनीताः । कलकलायमानं नगरं जातम् । राक्षसेन विजयचन्द्रो राज्येऽभिषिक्तः। ततो विजयचन्द्रेणोक्तम्- 'भोः श्रेष्ठिन् ! तवोपकारो महान् जातः । त्वमपि किञ्चित् कार्य कथय । गुणवर्मणा स्वस्वरूपं कथितम् । विजयेनोक्तम्- त्वं किं लोभाकरस्य पुत्रः ? । स तु कूटनिधानं, त्वं तु एवंविधः!। परम् उक्तमस्ति- "तक्रादिव नवनीतं पशदिव पद्यममृतमिव जलधेः। मुक्ताफलमिव वंशाद् धर्मः सारं मनुष्यभवात्"
'पवादपि कमलम्' इति सत्यम् । पुनर्विजयचन्द्रेणोक्तम्-इदं त्वयैव सेत्स्यति कार्यम् । शृणु
॥६॥