________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कथा।
॥५॥
सबन्धितः। पुरमध्ये प्रमयित्वा लोकांस्यमानो वध्यभूमौ पातितः। स मृत्वा परिणामवशाद राक्षसोऽभूत . । तेन राक्षसेन पूर्वभवं स्मृत्वा क्रुद्धेन प्रत्यक्षीभूय स्वस्वरूपकथनपूर्व तव भ्राता चाटूनि वदन्नपि निपातितः ।सर्वेजना अपिहिन्यमाना भयाद् जीवग्राहं नष्टाः । अहमपि नश्यन्ती तेन दृष्ट्वा स्थापिताऽस्मि। स दिने कापि याति, रात्री समेति । हे देवर ! दैवाद् अहं साटे पतिता स्थिताऽस्मि, परं त्वं याहि । इति श्रुत्वा मयोक्तम्-तस्य किमिद मर्म प्रकाशय, येन एनं वैरिणं जित्वा स्वं राज्यं पालयामि । तदा तयोक्तम्'यदि कोऽपि पुमान् घृतेन तस्य पादाभ्यङ्गं करोति तदा विशेषतो निद्रा समेति, स्वीकृताऽभ्यङ्गे तादशी नायाति निद्रा । अन्यच्च, चरणाभ्यङ्गात् पूर्व चेद् मानुषं वेत्ति तदा स तं हन्त्येव । अहं च तत्पादाभ्यङ्गं सदैव करोमि । इत्युक्त्वा तस्यां स्थितायाम् अहं कमपि सहायकं द्रष्टुं चलितोऽस्मि। यदि त्वं सहायको भवसि सदासहस्रमेव जापं कृत्वा वशीकरणविद्यां स्मृत्वा तं राक्षसं वश्यं करोमि। महान् उपकारस्त्वया कृतो भविष्यति। यतः- “दानं वित्ताद् ऋतं वाचः कीर्ति-धर्मा तथायुषः । परोपकरणं कायाद् असारात् सारमुद्धरेत् ॥१॥"
इति प्रोच्य विजयचन्द्र स्थिते सति गुणवर्मणा चिन्तितम्-'ममापि पितृमोक्षकार्य तदा सेत्स्यति यदि अस्य कार्य सेत्स्यति । ततस्तेन सहायकत्वे प्रतिपन्ने सति तौ द्वावपि राजभवनं गत्वा
॥५॥