SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी कथा॥ ॥४॥ कोऽपि सिद्धपुरुषोऽतीसाररोगी दृष्टः।मया कृपया स उपचरितः, पटुर्जातः । तेन तुष्टेनस्तम्भनी वशीकरणी च द्वे विद्ये दत्ते, सुवर्णनिष्पादकरसतुम्बकं च दत्तम् । इति दत्त्वा सिद्धनरः श्रीपर्वते गतः । अहं च चन्द्रावतीमध्ये लोभनन्दि-लोभाकरहट्टं गतः । ताभ्यामावर्जितः। तयोर्हस्ते रक्षणाय रसतुम्बकमर्पित। मया तत्रैव पुरे कौतुकानि पश्यता कियन्ति दिनानि स्थित्वा मातुर्मिलनाय उत्कण्ठितेन सता श्रेष्ठिनो हट्टं गत्वा रसतुम्बकं याचितम्, परंताभ्यां कूटमुत्तरं कृतम् । ततो मया कुपितेन कूटस्य फलंदर्शितम्" । अत्रावसरे श्रेष्ठिना चिन्तितम्- "पित्रोर्दुःखकर्ता स एवायं पुरुषः'। इति चिन्तयन् श्रेष्ठी बभाषे-'अग्रे किम् ? । सोऽवादीत्- "ततश्चन्द्रावत्या अहमत्रागतः । पैतृकं नगरं शून्यं दृष्ट्वा दुःखतो मध्ये प्रविश्य राजभुवनमाजगाम । तत्र मया विजयानाम्नी भ्रातृजाया दृष्टा । तया आसनादिप्रतिपत्तिः कृता। सा च सर्व स्वरूपं रुदती सती बभाषे-'अत्र नगरे कोऽपि रक्ताम्बरस्तपस्वी समेतः, समासे मासे पारणं कुरुते । सोऽन्यदा तव भ्रात्रा पारणाय निमन्त्रितः। तस्य च भोजनं कुर्वतो राजाऽऽदेशाद् मया वातो व्यञ्जितः। स मां प्रति अनुरक्तचित्तो भुक्त्वा स्थानं गत्वा रात्रौ गोधाप्रयोगेण उपरि मम शयनस्थानं प्राप्तः, मां प्रार्थयामास । मया निषिध्यमानोऽपि स न विरराम। अथ राज्ञा द्वारप्राप्तेन तत्स्वरूपं निशम्य निजपुरुषैः १ पितृ-पितृव्ययोः। ॥४॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy