SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्रीजैन श्री मलयसुन्दरी कथा॥ कथासंग्रहः ॥३॥ तुम्बकं भग्नं, यदिन प्रत्ययस्तस्य तदा खण्डानि पश्य'। इत्युक्त्वा अन्यस्य कस्यचितुम्बकस्य खण्डानि दर्शितानि । तेन तानि दृष्टा चिन्तितम्-नूनम् एतानि मम तुम्बकस्य न भवन्ति, किन्तु लोभान्धी वणिजौ ममाग्रे कूटम् उत्तरं कुरुतः । तेन बह्वपि प्रोक्तं, परं तुम्बकं न दत्तम् । ततस्तेन पुरुषेण क्रुद्धेन सता लोभनन्दि-लोभाकरौ गृहतोकस्थाने स्तम्भनीविद्यया कीलितौ व्यथाऽऽकुलो क्रन्दन्तौ तिष्ठतः । स पुरुष एवं कृत्वा गतः। लोभाकरपुत्रो गुणवर्मा ग्रामान्तरादागतः । तत्स्वरूपं लोकमुखाद् ज्ञात्वा दुःखितो मन्त्र-तन्त्रादिकं कारयामास, परं तयोर्द्वयोरपि विशेषतो व्यथाऽभूत् । ततश्चिन्तितम्-'येन कीलितो तेनैव मोक्षः, नान्येन' इति विमृश्य कुटुम्बस्य गृहशिक्षां दत्त्वा तं पुरुषं द्रष्टुं चलितः । पृथ्वीतले प्रमन् काऽपि धन-धान्यसमृद्धमपि निर्मानुषं नगरं दृष्ट्वा विस्मितो मध्येऽविशत् । तेन गच्छता एकः पुरुषो दृष्टः । तेनोक्तम्-'हे वीर! कस्त्वम् ?, किमिदं नगरं शून्यम् ?' । तेनाप्युक्तम्-'त्वं कः' ? । सोऽवादीत्'अहं पथिकः, परं स्वरूपं कथय । इत्युक्ते स वीरपुरुषोऽवादीत्- "पृणु, इदं कुशवर्द्धनं नाम नगरम्। अत्र सूरो नाम राजा । तस्य जयचन्द्र-विजयचन्द्रौ पुत्रौ । पित्रा जयचन्द्राय राज्यं दत्तम् । पितरि 'विपन्नेऽहं विजयचन्द्रोऽहारं धृत्वा अस्मात् पुरान्निर्गत्य भ्रमन् चन्द्रावतीनगरौं यातः । तदने मया १मृते। ॥३॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy