________________
श्रीजैन कथासंग्रहः
॥२॥
प्राकृतैः संस्कृतैः पद्यैः कृता पूर्वं सविस्तरा । कथाऽसौ गद्यबन्धेन सङ्क्षिप्य किल कथ्यते ॥ ५ ॥
तथाहि इह जम्बूद्वीपे भरतक्षेत्रे चन्द्रावती नगरी । तत्र वीरधवलो नाम राजा । तस्य चम्पकमालानाम्नी राज्ञी, द्वितीया कनकवती च । ताभ्यां द्वाभ्यां राज्ञीभ्यां सह सुखेन राजा कालम् अतिचक्राम । अन्यदा राजसभायां प्रविष्टः प्रतिहारेण विज्ञप्तः - 'प्रभो ! गुणवर्मश्रेष्ठी तव द्वारे तिष्ठति' । राजादेशे जाते सति स श्रेष्ठी प्राभृतं पुरो मुक्त्वा नृपं नत्वाऽतिष्ठत् । राज्ञोक्तम्- 'कस्त्वम् ?, केन हेतुना प्राप्तोऽसि ?' । स प्राह- "श्रूयताम्, हे प्रभो ! अत्रैव तव नगरे लोभनन्दी लोभाकरश्च द्वौ भ्रातरौ वर्तते । लोभनन्दी पुत्ररहितो, लोभाकरस्य तु गुणवर्मा पुत्रः ।
अन्यदा तौ द्वावपि श्रेष्ठिनी हट्टनिविष्टौ भद्राकारं कञ्चिन्नरं दृष्ट्वा सन्मार्गदानेन प्रतिपत्तिं कृत्वा विश्वासवन्तं चक्रतुः । तेन पुरुषेण रक्षणार्थं रसतुम्बकम् एकमर्पितम् । ताभ्यां हट्टान्तरुद्बध्य मुक्तम् । पुरुषस्तु वाऽपि गतः । अथ रसतुम्बकाद् गलित्वा गलित्वा रसबिन्दवः पतिताः, तैश्च अधः स्थितं कुशीप्रमुखं लोहं स्वर्णरूपं दृष्ट्वा वणिजौ विस्मितौ । लोभान्धाभ्यां ताभ्यां तत् तुम्बकं क्वाऽपि गोपितम् । कियत्सु दिवसेषु गतेषु तुम्बकमोक्ता पुरुषः समेत्य तुम्बकं ययाचे । श्रेष्ठिभ्यां कथितम्- 'भोस्तत्
श्री मलयसुन्दरी
कथा ।।
॥२॥