SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥६८॥ 'स्वरूपं लोकाग्रे वक्ष्यति तदाऽहं क्वापि प्रवेशं न लप्स्ये ततोऽयं मार्यते तदा वरम् । इति विचिन्त्य तया काष्ठानि वेष्टयित्वा मुनिर्ज्वलितः । महाबलमुनिः सुदुस्सहमुपसर्गं सम्यक् सहमानः केवलज्ञानमासाद्य सिद्धिं ययौ । प्रभाते शतबल उत्कण्ठितो नन्तुमागतः । मुनिस्थाने भस्मपुत्रं दृष्ट्वा शङ्कितः, क्वापि तातं न ददर्श, किन्तु पदानुसारेण सा छिन्ननासा दृष्टा । तया ताड्यमानया सर्व सत्यमुक्तं, तदा सा कदर्थनया मारिता षष्ठं नरकं ययौ । राजा दुःखाऽऽक्रान्तो विलप्य स्वस्थानं ययौ । मलयसुन्दरी महत्तरापदं प्राप्ता । महाबलनिर्वाणेन पुत्रं दुःखितं ज्ञात्वा प्रबोधायागता । तं प्रबोध्य पश्चात् सहस्रबलं प्रतिबोधयितुं पृथ्वीस्थानं पुरं गता । कतिचिद्दिनपर्यन्ते शतबलोऽपि महत्तरां नन्तुमुत्कस्तत्रागात् । तत्र च तौ मिलितौ द्वापि पुत्रौ दुःखहीनौ कृत्वा महत्तराऽन्यत्र विजहार । तौ च द्वावपि स्वस्वपुरे स्थितौ राज्यं पालयतः स्म । मलयसुन्दरी प्रान्ते आराधनां कृत्वा द्वादशे देवलोके जगाम, महाविदेहे च समुत्पद्य विदेहे सिद्धिं यास्यति । इति मलयसुन्दरीकथां श्रुत्वा मलयसुन्दरीवद् ज्ञानं शीलं च पाल्यं विवेकिभिः । यथा ताभ्यां पूर्वभवे मुनेराशातना कृता तथा न केनापि कर्तव्या । श्रीमत्पार्श्वजिनेन्द्रनिर्वृतिदिनाद् याते 'समानां शते, सञ्जज्ञे नृपनन्दना मलयतः सुन्दर्यसौ नामतः । १ वर्षाणाम् । श्री मलयसुन्दरी कथा ॥ ||६८||
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy