SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः चंद्रधवलभूप धर्मदत्तश्रेष्ठि कथा ॥५॥ किञ्चित् कर्षयति तदा सत्यं । तेन द्विजेन तथैव कृतम् । साधोः समीपे श्रावकत्वमादृतम् । हे श्रीपते! , तथा त्वमपि मिथ्यात्वेन भवाम्भोधौ भ्रमिष्यसि, धर्मधनवचसा प्रीतः श्रीपतिः प्राह-कमुपायं कुर्वे ? तेनोक्तं-वीतरागसदृशो नहि देवो, जैनधर्मसदृशो नहि धर्मः कल्पवृक्षसदृशो नहि वृक्षः, कामधेनु सदृशी नहि धेनुः ॥ १४ ॥ जैनो धर्मः प्रकटविभवः सङ्गतिः साधुलोके । विद्वद्गोष्ठी वचनपटुता कौशलं सत्कलासु (सत्क्रियासु)॥ साध्वी लक्ष्मीश्चरणकमलोपासनं सद्गुरूणाम् । शुद्धं शीलं मतिरमलिना प्राप्यते नाल्पपुण्यैः ॥ १५॥ चन्दनं शीतलं लोके। चन्दनादपि चन्द्रमाः । चन्द्रचन्दनयोर्मध्ये पुत्रगात्रं सुशीतलम् ॥१६॥ अतो जैनधर्म कुरु। इति मित्रवचसा धर्म ज्ञात्वा त्रिकालं जिनपूजाम्, उभयकालं प्रतिक्रमणं, प्रतिवेलं च सामायिकं परमेष्ठिस्मरणं, नियदव्वमउव्वजिणभवण-जिणबिंबवरपइछासु । वियरइ पसत्यपुत्थय-सुतित्थतित्थयरजत्तासु॥१७॥ इतिसुक्षेत्रवित्तवपनादिपुण्यं च कुर्वतः सकलत्रस्य श्रीपतेः षण्मासा व्यतिक्रान्ताः । एकदा पाश्चात्यरात्रौ प्रबुद्धः चिन्तयामास जैनधर्ममपि कुर्वतो मम न फलसिद्धिः । किमेष धर्मो निष्फल इति यावच्चिन्तयति तावता शासनदेवता प्रोचे-हा मूढ ! जितं फलकं मा हारय, शां मा कुरु। यतः- आरम्भे नत्थि दया महिलासङ्गेण नासए बंभं । संकाए सम्मत्तं, पव्वज्जा अत्थगहणेण ॥ १८॥ तव पुत्रो भविष्यति । परं शङ्काकरणात् पुत्रसौख्यं त्वं न लप्स्यसे । ॥५॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy