________________
श्रीजैन कथासंग्रहः ।।
चंद्रधवलभूप धर्मदत्तश्रेष्ठि कथा
॥४॥
कुरु । यत:- संमत्तं उच्छिंदिय, मिच्छत्तारोवगं नियकुलस्स । तेण सयलोवि वंसो, दुग्गइमुहसंमुहो नीओ॥७॥ मिच्छत्तं उच्छिंदिय, संमत्तारोवगं नियकुलस्स । तेण सयलो वि वंसो, सिद्धिपुरीसंमुहो नीओ॥८॥ मिथ्यात्वेन यदि कदाचित् पुत्रो भवेत् तदपि न वरम् । यथा देवशर्मनाम्नाऽपुत्रद्विजेन कापि पाद्रदेवता प्रोक्ता । यदि मे पुत्रो भविष्यति तदा ते देवकुलमुद्धरिष्येऽग्रे तटाकिकां कारयिष्ये । वर्ष प्रति एकं छागं हनिष्यामि। अथ तस्य पुत्रो जातः । महोत्सवः कृतः । देवीदत्त इति नाम कृतम् । देवशर्मणा देव्या भवनमुद्धृतम् । तटाकिका कारिता, वृक्षा रोपिताः, देव्यग्रे छागो हतः । एवं प्रतिवर्ष कुर्वन् देवीदत्तो यौवनं प्राप्तः । पिताऽन्येद्युः कृतार्तध्यानो मृत्वा तत्रैव पुरेऽजोऽभूत् । तत्पुत्रेण वर्षप्रान्ते स एव मेषो द्रव्येण क्रीतः स्वगृहे समानीतः । तस्य छागस्य स्वगृहं पश्यतो जातिस्मरणमुत्पन्नम्, सर्व स्वरूपं ज्ञातम् । मनसि भीतः । देव्यग्रे वधार्थ महोत्सवेन नीयमानो न चलति । बलेन नीयमानो मार्गे केनापि ज्ञानवता साधुना दृष्टः, तेनोक्तम्-सयमेव य रुक्खरोविया, अप्पणियावेयडि खाणिया। सयमेव य लुद्दयाइते, किं छगला वयबिति वासं से ॥ १३ ॥ इति श्रुत्वा साहसं धृत्वाऽजश्चचाल । सर्वे लोकाश्चमत्कृताः । देवीदत्तेन साधुरुक्त:-छागचालनमन्त्रं मम कथय । तेनोक्तम्-भद्र ! तवायं पिता मिथ्यात्वं कृत्वा मृत्वाऽजोऽभूत् । यदि सन्देहस्तदा गृहे नीत्वा मध्ये मुत्कलं मुञ्च । यदि निखातं द्रव्यं
||४||