SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथा ॥अघटकुमार चरित्रम् ॥ ॥२२॥ दत्त्वा त्वयोद्धतः ॥ २५५॥ उपकारान्मुनेऽमुष्मादधमर्णस्तवास्म्यहम् । ततो यद् युज्यते किञ्चिद् गृह्यतामनुगृह्य तत् ॥ २५६ ॥ निवृत्ताऽशेषकामस्य परब्रह्मैकचेतसः। कार्य किञ्चिन्न मेऽस्तीति मुनिः प्रत्यादिदेश तम् ॥२५७॥ ततोऽसौ रञ्जितस्तस्य निरीहत्वादिभिर्गुणैः । लोकातीतैस्तपोभिश्च नत्वा तं स्वगृहं ययौ॥२५८॥ __ अथाऽऽस्ते पालयन् प्रीतः कृपाधर्ममनारतम् । वर्धमानमनोरङ्गस्तनूजमिव वल्लभम् ॥ २५९॥ अन्यदा तं मुनिं दृष्ट्वा मांसक्षपणपारणे। नत्वा नीत्वा गृहं भक्त्या भक्ताद्यैः प्रत्यलाभयत्॥२६०॥ विजहार मुनीन्द्रोऽपि, ततश्चेतः समाययौ। मेषादीनां यम इव समहानष्टमीमहः॥ २६१॥ बालेयान् महिषांस्तत्र छागांश्च गणशस्तदा । लोकाः प्रगुणयामासुः क्षिप्रापूपादिकानिव ॥ २६२ ॥ अथ स्वपुत्र-सामन्त-सेनानीभिर्वृतो नृपः । सन्नद्धभटसेनाङ्गो राजपाट्यां विनिर्ययौ ॥ २६३ ॥ गत्वा गोत्रेश्वरीचैत्यं नत्वा स्तुत्वा प्रपूज्य ताम् । कुमारानादिशत्तत्र मापतिर्बलिकर्मणे ॥ २६४ ॥ ततस्तैः स्पर्द्धया सर्वैस्तदा यमसुतैरिव । निस्त्रिं 'शैरात्त निस्त्रिंशैर्बभावे गजभञ्जनः ॥ २६५ ॥ येनाऽभाजि त्वया सिंहेनेव प्राक्करिणां घटाः । प्रत्यक्षीकुरु सर्वेषां तदिदानीं भुजाबल!॥ २६६ ॥ असिं निशितमादाय दृढं प्रहर सैरिभे । कूष्माण्डमिव कस्यैष प्रहाराद् भवति द्विधा ॥ २६७ ॥ सोऽवदन्न तु चाऽन्याये युष्माकमिव मे मतिः । अयुध्यमानान्नैस्त्रिंश्याद्धनिष्यामि निर्दवः । र गृहीतखड्गैः ।।अमलि। ४ महिये। २२॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy