________________
श्रीजैन
कथासंग्रहः
॥ अघटकुमार चरित्रम् ॥
॥२०॥
पावनेभ्योऽपि पावनम् ॥ २४२ ॥ ये तु नित्यं नमस्यन्ति वरिवस्यन्ति' चाऽऽदृताः । महात्मानममुं तेषां हस्ते सर्वार्थसिद्धयः॥२४३॥ तदेतस्य प्रणामेन निजंजन्म कृतार्थय । जन्तूनां स्याद्यतोऽमुष्य दर्शनेऽपि मलक्षयः॥ २४४ ॥ गिरस्तस्येति श्रुत्वाऽयं मधु-दुग्ध-सुधाऽधिकाः । स्तुवन् मित्रं च स्वं निन्द्यं मन्वानो मुनिमानमत् ॥२४५॥ विज्ञायाऽवधिना तस्य मुनिरप्युपकार्यताम् । कायोत्सर्ग पारयित्वा कृपाधर्ममुपादिशत् ॥ २४६ ॥ कृपा धर्मतरोर्मूलं कूलं संसारवारिधेः । हिंसा पल्लीव दोषाणां भल्लीव क्रोधवैरिणः ॥ २४७ ॥ कुष्ठिनः कुणयो व्यङ्गाः पङ्गवः प्रचुराऽऽपदः । जीवहिंसाप्रभावेण भवन्ति भविनो भुवि ॥ २४८ ॥ सर्वे वेदा न तत्कुर्युः सर्वे ६ यज्ञा यथोदिताः । सर्वे तीर्थाभिषेकाश्च यत्कुर्यात् प्राणिनां दया ॥ २४९ ॥ इत्याकर्ण्य मुनेर्वाचः प्रतिबुद्धो विशुद्धधीः । निर्मन्तूनां स जन्तूनां निग्रहाऽभिग्रहं व्यधात् ॥ २५० ॥ अथोपश्लोकयामास मुनिर्लोकोत्तरोऽपि 'ताम् । दृढीकर्तु मनस्तस्य प्रतिज्ञाताऽर्थपालने ॥२५१॥जीवहिंसां यदत्याक्षी: पारम्पर्यगतामपि। मुनीनामपि तद्भद्र ! श्लाघ्योऽसि कृपया मुदा॥ २५२॥ इतः कुमार! कारुण्यधानिरतिचारतः । दुर्लभास्ते भविष्यन्ति न नराऽमरसम्पदः ॥ २५३ ॥ सुगृहीतं त्वमुं कुर्यास्त्याक्षीर्मा लोकवाक्यतः । प्राणात्ययेऽपि नोज्झन्ति यतः स्वकृतमुत्तमाः॥ २५४ ॥ सोऽभ्यधाद्धर्ममुज्झामि प्राणत्यागेऽपि नो मुने!। पतन् श्वधेऽथ देयस्याऽऽलम्बं १ पूजयन्ति । २ तटम् । ३ प्राणिनः । ४ निरपराधानाम् । ५ दयाम् ।
॥२०॥