________________
श्रीजैन
॥अघटकुमार चरित्रम्॥
कथासंग्रहः ॥१९॥
नरेन्द्रस्तं ज्ञात्वा राजर्षिमागतम्। ययौ नन्तुं महाऽनन्दात् परिवारपरिवृतः॥ २२९ । मुनीन्द्रं कनकाम्भोजाऽऽसीनं राजमरालवत् । प्रणम्य निषसादाग्रे पदातिरिव भक्तितः ॥ २३० ॥ तत्र धर्मोपदेशं च श्रुत्वा मुनिमुखादसौ। पप्रच्छाऽघटभूपालचरितं प्राग्भवार्जितम् ॥ २३१॥ किं मया प्राग्भवे पुण्यमगण्यं विदधे प्रभो !। संपदः संप्रपद्यन्ते येनैवं विपदोऽपि हि ॥ २३२ ।। अथोचे केवली साधुसुभटो भरतावनौ। आस्ते विदर्भविषयमण्डनं कुण्डिनं पुरम् ॥ २३३ ।। तत्राऽऽसीत् त्रासिताऽशेषशत्रुभूपपुरन्दरः । शचीतस्याऽभवद् राजी नामतो रूपतोऽपि च ॥ २३४ ॥ व भूपाः क्व दिवः स्वामी व गेयं व शिवारवः । इति पक्षिरुतर्यस्याऽऽक्रन्दन्तीव द्विषहाः ॥२३५॥ बभूव तनयस्तस्य भूपतेर्गजभञ्जनः । भङ्क्त्वा गजघटान् 'जन्ये चक्रे स्वं नाम योऽर्थवत् ॥ २३६ ॥ अथ तुल्यवयोरूपैर्वयस्यैः परिवारितः । सोऽन्यदा नन्दनाकारं पुरोपवनमीयिवान् ॥ २३७॥ निःस्पृहं निरहारं मुक्तेनिःश्रेणिकामिव । कायोत्सर्गस्थितं तत्र विलोक्याम्रतले मुनिम् ॥ २३८ ॥ स्वरूपयौवनोन्मत्तो भूपभून्यूँनधीस्तदा। कृताङ्गरागसौरभ्यवासितोपवनाऽवनिः ॥ २३९॥ प्रस्वेदमलदौर्गन्ध्यभरेण व्यथितो मुनेः। जुगुप्सते स्म तं दुष्टः कुलाबैरवहेलयन् ॥ २४० ॥ त्रिभिर्विशेषकम् । अथैको भद्रकस्तस्य वयस्यस्तमभाषत। प्रणुन्न इव पुण्येन कुमारस्य भविष्यता॥२४१॥ माऽवज्ञासी: कुमारनं पुण्यप्राप्यपदद्वयम् । अयं हि परमं तीर्थ
१युद्धे। रजग्मिवान।
॥१९॥