SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ************* ॥१८॥ लक्ष्मीं लेभेऽधिकाऽधिकाम् ॥ २१६ ॥ इत्थं सशोको निर्गम्य निशां कृत्वा सुतक्रियाम् । वसुधेशो द्वितीयेऽह्नि श्रीजैन ६ जजल्पेति नभस्थितिः ।। २१७ ।। हंहो ! शृणुत मत्पापं पुण्यमस्याघटस्य च । ज्ञानं च ज्ञानगर्भस्य कथासंग्रहः मर्त्यलोकेऽद्भुतत्रयम् ॥ २९८ ॥ जातमात्रेऽप्यदृष्टेऽपि जन्मश्रवणमात्रतः । ग्रहीष्यत्येष ते राज्यं पुरोधा इत्यचीकथत् ॥ २१९ ॥ ततो नाऽजीगणं धर्मं निजं नाऽजीगणं कुलम् । अचीकरमहं तच्च नाऽन्त्य' जोऽपि करोति यत् ।। २२० ।। एष बाल्यादपि मया मारणाय पुनः पुनः । आरब्धोऽपि परं पुण्यैर्निजैरेव हि रक्षितः ६ ॥ २२९ ॥ पापं हि प्रकटं भव्यं प्रकाश्येति निजं पुरः । सभ्यानां तानथापृच्छ्याऽघटं पुण्योत्कटं नृपः ।। २२२ ।। ६ अभिषिच्य निजे राज्ये क्षमयित्वाऽखिलं जनम्। जैनीं दीक्षां गुरोः पार्श्वे स्वात्मसिद्धयै प्रपेदिवान् ॥ २२३ ।। युग्मम् ॥ ततोऽघटनरेन्द्रेण स्वमाता मालिकौ च तौ । देवधरश्चाऽवधकाः सर्वे राज्ययुजः कृताः ॥ २२४ ॥ अथाऽघटमहीपालः पालयन् राज्यमुज्ज्वलम् । २ परेषां दुर्निरीक्ष्योऽपि वश्योऽभून्न्यायधर्मयोः ।। २२५ ।। ततः प्रमोदस्तद्भूमौ प्रतिष्ठामासदत् पराम् । विषादस्तु विषण्णात्मा तद्वैरिनगराण्यगात् ।। २२६ ।। यात्राऽऽरम्भेऽपि भूपालाः सर्वे सेवकतां गताः । पूर्यते स्म न केनाऽऽपि तस्य संग्रामकौतुकम् ॥ २२७ ॥ अथाऽत्युग्रतपोवारिधौतान्तरमलोत्करः । राजर्षिः केवली तत्राऽयासीत् सुघटितोऽन्यदा ।। २२८ ॥ अघटोऽपि १ चण्डालः । २ अरीणाम् । ***** *** ॥ अघटकुमार चरित्रम् ॥ ||१८||
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy