________________
र
श्रीजैन कथासंग्रहः
। अघटकुमार चरित्रम् ॥
॥१७॥
केनापि निहतोऽधुना । ब्रुवन्त इति योद्धारः सम्भ्रमेण दधाविरे ।। २०३ ॥ तदाकर्ण्य क्षणं भूपो योगीव सुखभागभूत् । ब्रुवन्त किमिदमुत्तस्थौ परं लोकानुवृत्तये ॥ २०४ ॥ यावद्राजपथं राजा जगाम सपरिच्छदः। अघटोऽप्यागमत्तावदाकृष्टासिर्बुवन्निदम् ॥ २०५॥ तेन जागरितः सिंहो मृत्युना स कटाक्षितः । येनाऽघानि कुमारोऽयं छलघातेन पापिना ॥ २०६ ॥ वदनिति पुरो दृष्ट्वाऽघटं संमुखमागतम् । किमेतदिति पप्रच्छ विच्छायवदनच्छविः ॥ २०७ ।। अघटः स्माह देवाऽहं गच्छन् गोत्रेश्वरीगृहम् । अनुयुक्तः' कुमारेण यथातथमचीकथम् ॥ २०८॥ ततोऽभाणि कुमारेण तिष्ठ त्वं यास्यते मया। अदृष्टपूर्वी तन्मार्ग गमिष्यसि कथं निशि? ॥ २०९ ॥ इत्युक्त्वा मम नेपथ्यमुपादाय बलादपि । कालपाशैरिवाकृष्टः कुमारो देव! निर्ययो ॥२१०॥ ततः कुमारद्दधानः क्षोणिराजं व्यजिज्ञपन् । अनवलगको जज्ञे कुमारो देव ! सम्प्रति ॥ २११॥ कृत्वा प्रसादं तत्सौधे देव ! पादोऽवधार्यताम् । राजानो येन नेक्षन्ते मृताननममङ्गलम् ॥ २१२ ॥ इत्याकर्ण्य गिरं गाढमुद्राऽऽघातसोदराम् । राजा तत्याज ताम्बूलं कीलितः शोकशङ्खना ॥ २१३ ॥ अथ सौधमधिष्ठाय दथ्यौ विश्वम्भराधिपः । अहो देवस्य चरितमवाग्मनसगोचरम् ॥ २१४ ॥ सुघटान्न घटयति घटयत्यघटानपि । प्रमाणं दैवमेवातश्चिन्तितं न पुनर्नृणाम् ॥ २१५॥ कुमारो मृत्युना निन्ये रक्ष्यमाणोऽपि यत्नतः। 'दासेरो हन्यमानोऽपि १ पृष्ठः । २ दासीपुत्र:-अघटः ।
॥१७॥