________________
॥ अघटकुमार चरित्रम्॥
। १९०॥ एकाकीभूय गच्छेस्त्वमद्य पूजयितुं निशि । बहिःपुरीप्रदेशस्थामस्मद्रोत्राऽधिदेवताम् ॥ १९१ ॥ अघटोऽपि नृपादेशं तथेति प्रतिपद्य तम् । बलिपुष्पादिसामग्री समग्रामप्यचीकरत् ॥ १९२॥ पाणौ पटलिकां सव्येऽपसव्येऽथ प्रदीपकम् । आस्थाय प्रस्थितो देवीं स तु पूजयितुं निशि ॥१९३ ।। तदा सौधगवाक्षस्थो यान्तं तं वीक्ष्य भूपभूः । दम्यौ किं याति योगीन्द्रो विद्यां साधयितुं निशि? ॥ १९४ ॥ अथ विज्ञाय भगिनीपतिं निकटमागतम् । पूगीफलेन तं मूर्ध्नि निजघान हसंस्ततः॥१९५॥ बभाषे च महाधूर्त इव त्वं लोक्यसे मया। इयत्यामपि वेलायामेकाक्येव'इयर्षि यत् ॥ १९६।। अघटोऽप्यूचिवान्नाऽहं वेधि किञ्चन किन्तु वः । गोत्रदेवीं नृपादेशात् प्रवृत्तोऽस्मि'महीयितुम् ।। १९७ ॥ बूचे कुमार एडोहि कृतं चत्वरलानैः !! नवोढस्य च ते क्वाऽपि किञ्चनाऽपि भविष्यति ॥ १९८ ॥ किञ्चाऽस्माकीनगोत्राधिदेव्याश्च भवतश्च किम् ? । स्वयमेवाऽर्चयिष्यामि स्वामहं गोत्रदेवताम्॥१९९॥ इति ब्रुवन्नवातीर्य तन्नेपथ्यश्चचाल सः । गृहीत्वा बलिपुष्पाद्यं स्वस्थाने 'स्थाप्य तं ततः॥२०॥
यावत् पूजयितुं देव्यालयद्वारं विवेश सः । तावदाकृष्टकोदण्डो घातको व्यमुचच्छरम् ॥ २०१॥ ततो 3 विक्रमसिंहोऽपि बाणभिन्नोऽपतद्धवि। तत्क्षणादेव पूच्चक्रे जनैर्देवीगृहस्थितैः॥ २०२॥ जामाता वसुधाभर्तुः
क्मती। २ पूजयितुम् । ३ स्थापयित्वा।
॥१६॥