SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥ अघटकुमार चरित्रम् ॥ ॥१५॥ शक्तः कोटिजिह्वोऽपि जायते ॥ १७७ ॥ किन्त्वेवं बाहुमुल्लास्य स्माहुर्देव ! पुराविदः । नैवेयमभवल्लक्ष्मीलक्ष्मीकेशवयोरपि ॥ १७८ ॥ तद्वार्ताभिर्नृपश्चान्तर्विषादविषविह्वलः । कम्पयामास मूर्धानमुत्सवं वर्णयन्निव ।। १७९ ॥ कटरे दैववैमुख्यं मयीति परिभावयन् । सिष्माय च सुतोद्वाहश्रवणादिव रञ्जितः॥१८०॥ किमकारि कुमारेण राजाऽऽदेशो ममाऽप्यधः । किं वाग्लेखि मयैवैतद् विपर्यस्तधिया तदा ? ॥ १८१ ॥ निजराज्यपरिभ्रंशदुःखाकुलतयाऽपि हि। लोचनैरुल्लसद्वाष्पैरानन्दमिव दर्शयन् ॥ १८२ ॥ इत्युच्चैदर्शयन् हर्ष बहिः शोकाकुलाऽन्तरः । आह्वातुं प्रैषील्लेखं स कुमारं सवधूवरम् ॥ १८३ ॥ स राजलेखेक्षणतोऽप्यचलन विनयी तदा। चतुरनचमूपेतः कुमारः सवधूवरः॥१८४॥ तदागमनसोत्कण्ठैर्नृपादेशात् पुरोऽपि हि। नागरैरनुरागेण पुरशोभा व्यधीयत ॥ १८५॥ निर्निमेषेक्षणैः पौरवीक्ष्यमाण: पथि पथि । अघट: प्रविवेशाऽन्तःपुरी चक्रिवदुत्सवात् ॥ १८६ ॥ अथ निःशेषराजन्यसामन्तसचिवादिभिः । दौकितैरघटः प्रौडिमुपायनभरैरगात् ॥ १८७ ॥ तदैवं गच्छति ' प्रौढिमघटे तदुपायनैः । पञ्चषाऽहय॑तीतेषु स' रात्रावित्यचिन्तयत् ॥ १८८॥ न वंशः कस्यचित् पुत्र्या नीयते स्म समुन्नतिम् । ततो जामातरं हत्वा राज्य 'यच्छामि सूनवे ॥१८९॥ आततायिनमासूत्र्य ततः कृत्रिमसंभ्रमः । अघटं स्माह वत्साऽस्मदुपयाचितपूर्तये शतरि सप्तम्येकवचनम् । २ नृपः । ३ दक्षमि। ४ वयोधतम्। ॥१५॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy