________________
कथासंग्रहः
। अघटकुमार चरित्रम्।।
॥१३॥
पुराऽप्येष केवलोऽपि मृगेन्द्रवत् । निग्रहीतुमिदानीं तु शक्रेणाऽपि न शक्यते ॥ १५० ॥ ततो विसृज्य तान् सर्वानघटं कुटिलाशयः । आदिशद् गुप्तलेखेन मामालोक्य पयः पिबेः ॥१५१।। तदैवारुह्य करभीः पत्तिभिः सह पञ्चपैः । अज्ञातचर्ययाऽऽयासीदुपभूपमसौ निशि ॥१५२ ॥ तमालोक्य क्षितीशोऽपि दर्शयामास सम्भ्रमम् । भक्तस्त्वमेव मे सत्यमित्यालापेन चापृणोत् ॥१५३ ॥ बभाषे च कुमारोऽस्ति के टके सगरं गते । तत्र चाऽस्ते न कोऽप्यन्य: 'सांयुगीनस्तथाविधः ॥ १५४ ॥ ततस्तत्राऽऽशु गच्छेस्त्वं विलम्ब क्वाऽपि मा कृथाः। त्वयि तत्र गते सर्व साश्वष्टम्भं भविष्यति ॥१५५॥ लिखित्वा तत्क्षणादेव स्वयमेव नरेश्वरः। अघटस्यार्पयामास राजाऽऽदेशं नरेचरः ॥१५६॥ अज्ञातनृपकौटिल्यः, अघटः सरलाशयः । राजाऽऽदेशमुपादाय तदानीमेव निर्ययौ ॥१५७ ॥ अघटः कटकस्याऽऽशु निकटं शाइवलद्रुमम् । अनुजं नन्दनस्येव वनं प्राप दिनाऽत्यये ॥ १५८ ।। सुप्त: पल्लवशय्यायामश्वश्रान्तः सुखं ततः। प्रीयमाणः समीरेण मूदुना शीतलेन सः॥ १५९॥ आजगाम तदानी च परिभ्राम्यन्नितस्ततः । आहूत इव तत्पुण्यैस्तत्रैव हि स यक्षराट् ॥ १६०॥ तथास्थमघटं वीक्ष्य ससंरम्भः पुरोऽभवत् । नीतः केनैव मत्सूनुरवस्थां पथिकोचिताम् ?॥१६१ ॥ ज्ञात्वा ज्ञानेन तद्वृत्तं यक्षः क्षुब्धाब्धिभैरवः । अये ! सुघटितेनैष हन्तुं प्रेषि दुरात्मना ॥ १६२ ॥ साऽभ्यसूयस्ततो. राज्ञि राजादेशं तमाकृषत् ।
१ सेनायाम् । २ पुखम् । ३ युद्धप्रवीणः । ४ साऽभारम् । ५ सको।
॥१३॥