SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रह: ॥ अघटकुमार चरित्रम् ॥ ॥१२॥ विनाऽध्यक्षं दधिस्थालीमिव प्रजाम् ॥ १३६ ॥ कृताञ्जलिनुपादेशमघटः प्रतिपद्य तम् । प्रति प्रतस्थे मधुरां ६ राजगृह्यपरिच्छदः ॥१३७ ॥ अघटाऽऽगमनं श्रुत्वा पारश्चानन्दमेदुरैः । मथुरा उत्पताका वाऽकारि देवपुरीव सा ॥१३८॥ तत्र प्रविशतोऽमुष्य समग्रबलशालिनः । बभूव लक्ष्मीः सा काचिद् द्वारवत्यां हरेरिव ॥१३९ ॥ चिरं जीव चिरं नन्द चिरं राज्यं विधेहि च । चिरमाश्रितलोकानां पूरय त्वं मनोरथान् ॥ १४० ॥ एवं पुरपुरन्ध्रीभिराशीर्भिरभिनन्दितः। प्रविवेश महासौधमघटो मण्डलेश्वरः॥१४१॥ दानमानेक्षणाऽऽलापर्जनांस्तोष्य' यथोचितम् । कुर्वन् राज्यमथाऽन्येद्युः स रात्रावित्यचिन्तयत् ॥१४२॥ श्लाघ्यते साऽपि किंलक्ष्मीः सुमित्रैर्भुज्यते ६२ न या । यामुवीक्ष्य न वक्षांसि ताडयन्ति च शत्रवः ॥ १४३ ॥ प्रातस्तदैव विज्ञप्ति प्रेष्य तातपदान्तिके । आनाययत् स्वदेश्यानां सहस्रं सहचारिणाम् ॥१४४ ॥राजगृहानथोत्थाप्य तेष्वायातेषु तत्क्षणात् । स्वकीयानेव सर्वत्र यथास्थानमवेशयत् ।। १४५ ॥ यात यूयं नृपोपान्तं राजकीयानुवाच च । देवदत्तेऽपयाते हि यज्ञदत्तो न गीयते ॥ १४६ ॥ अथोपराजं ते गत्वा सर्वमेतद्व्यजिज्ञपन् । अघटेन निजश्चक्रे देव ! दौवारिकोऽपि हि ॥१४७॥ फालच्युतचित्रकवद् दुःखी राजाऽप्यचिन्तयत् । दृष्टिः प्रसारितैर्वाऽस्थान वायुनाऽनायि कजलम् ॥१४८ ॥ उदपद्यन्त हृद्येव हद्येव च विलिलियरे । अहो मे मन्दभाग्यस्य रहस्येव मनोरथाः ॥१४९ ।। दुर्निग्रहः १ गृधः पक्ष्यः-पक्षाश्रितः । २ तोषयित्वा। ॥१२॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy