________________
श्रीजैन
कथासंग्रहः
॥अघटकुमार चरित्रम् ॥
॥१॥
कोऽयं महाबाहुर्मदोद्धतः । रूपेण विक्रमेणाऽपि चक्रपाणिरिवापरः ॥ १२३ ॥ सोऽप्यभाषत मे देव ! सुतोऽयमघटाइयः । सर्वशाखेषु मेधावी सर्वशस्त्रेषु योधनः॥१२४॥ एवं तस्य गुणग्रामं शृण्वानः क्षितिवल्लभः । भयोत्थैरपिरोमाञ्चैरानन्दित इवाऽऽबभौ ॥१२५॥बभाण च नरेन्द्रस्तं यद्येवं तर्हि ते सुतः। अस्मानवलगत्वेष देशमेकं प्रदद्यहे ॥१२६ ॥ सोऽवदद्विदधे देव! राजसेवां न कोऽपि नः । कुलक्रमागतं होतदश्चवाणिज्यमेव नः ॥ १२७ ॥ इत्याकर्ण्य पितुर्वाक्यमघट: स्माह साहसी । लक्ष्मीः स्वयंवरा तात! किमायान्ती निवार्यते ॥१२८॥ किमन्वयैः समायातं साम्राज्यं शक्रचक्रिणाम्। प्रमाणीक्रियतां तस्मात्तात! देवाऽनुशासनम् ॥१२९॥ इत्थमाकर्ण्य तद्वाचमूचे देवधरं नृपः । न भेतव्यं त्वया हन्त ! दूरे तिष्ठ त्वमात्मना ॥ १३० ॥ पार्थेऽमुष्य भविष्यन्ति ममैव हि नियोगिनः। ममैव पत्तयः सर्वे सूनुस्ते केवलं विभुः॥१३१॥ इत्युक्त्वा मथुराराज्यमघटाय ददौ नृपः । विश्वासस्य कृते मांसं मीनेभ्य इव मैनिकः ॥१३२।। जग्रन्थ शकुनग्रन्थिं पुरोधाश्च नृपोऽपि हि। दम्यावेवमिदानी मे मुष्टिमध्येऽघटोऽजनि ॥ १३३ ॥ अधुनैव हते भावी प्रवा दो मम दुःसहः । तद्देशं यातु
साम्योऽयमुपायेनाऽपि केनचित् ॥ १३४ ॥ अचासौ प्राप्तसाम्राज्यो लब्धांश इव गोत्रजः । २ प्रोक्तोऽन्येधुर्महीपेनाऽघटोऽमृतकिरा गिरा॥१३५॥ अघट! व्रज देशे त्वं वरटा: कर'टाइव। मा स्म लुण्टन्
मीवरः । २ निन्दा । करटः काकः ।
॥१२॥