________________
श्रीजैन कथासंग्रहः
॥अघटकुमार चरित्रम् ।।
॥१०॥
क्षितिपाऽऽस्थानं पुत्रादिपरिवारितः ॥ ११०॥ तुरङ्गयुगमुत्तमं प्राभृतीकृत्य कृत्यवित् । नत्वा नरेश्वरं श्रेष्ठं यथास्थानमुपाविशत् ॥ १११॥ पुरोधसः पुनदृष्टिरघटं नवयौवनम् । आलिलिङ्गाऽनुरक्तेव सुभङ्गं वरवर्णिनी॥ ११२।। अथ देवधरो राज्ञा सुप्रसन्नेन सत्कृतः। ययौ निर्दिष्टमावासं 'मराल इव मानसम्॥११३॥ ज्ञानगर्भस्ततः स्माह विस्मयस्मेरमानसः । राजानं वचनैस्तथ्यैर्वशिष्ठ इव राघवम् ॥११४ ॥ आसीद्देवधरं देव ! दक्षिणेनेह यः पुमान् । 'अस्ते रिव भूपाल ! स्थाने ते स भविष्यति ॥ ११५ ॥ तत्क्षणादेव चुक्षोभ तद्वाचा मापतेर्मनः । मन्दरक्ष्माधरेणेव विगाः सरितां पतिः ॥ ११६ ॥ स्वतन्त्रे च सपुत्रे च मयि राजनि जीवति । अन्योऽपि श्रीविशालायां किं भविष्यति भूपतिः ?॥११७॥ सम्भावयामि दासेरः स एवैषोऽपि नेतरः । ग्रीवाभरणमादाय नूनं तेनाऽप्यमुच्यत ॥ ११८ ॥ स एवाऽक्षरविन्यास: सैव विस्मयपत्रिका । सहसा ज्ञानगर्भस्याऽऽविरास कथमन्यथा?॥११९॥ इति चेतसि संचिन्त्य निश्चिकाय पुनर्नवम् । विनाशोपपिकं तस्य सुगूढं प्रौढशासनः ॥ १२०॥ यथाऽसौ स्ववशीकृत्य देशदानादिकर्मणा। विश्वस्तञ्च सुखेनैव दानाचैर्निग्रहीष्यते ॥ १२१॥ ततो देवधरं सायमायातं सपरिच्छदम् । वीक्षमाणोऽघटं गाढमवोचद् वसुधाधवः ॥ १२२ ॥ अयि ! त्वा निकषा
१ हंसः । २ अस्थातोः स्थाने यथाऽशिति विषये भूरादेशो भवति । ३ दासीपुत्रः ४ पत्तिना। ५ निकषायोगे पाष्टीस्थानीया द्वितीया।६ समीपे।
॥१०॥