________________
श्रीजैन कथासंग्रहः
॥ अघटकुमार चरित्रम् ॥
॥९॥
नृजन्माऽपि विफलं त्ववकेशिवत् । यक्षोऽवदन्मा विषीद त्वं कामदोऽस्मि सुरखुवत् ॥ ९८ ॥ तद् गृहीथा मदरस्थं मत्पुत्रमघटं प्रगे'। यक्षराजो निधायैवमदृश्यत्वमुपेयिवान् ॥ ९९॥ स्वप्नः किमेष किं माया किंवा चित्तभ्रमो मम । साऽश्चर्यश्चिन्तयन्नित्थं सोऽगाद्यक्षौकसि प्रगे॥१०॥ - तत्र प्रविशतोऽप्यस्य क्वणच्चरणघुर्धरः । अघटस्ताततातेति ब्रुवन्नभ्यागमत् क्षणात् ॥ १०१॥ वदन्नेह्येहि वत्सेति स तमादाय सस्वजे '। यक्षपादानथानम्य निजावासमुपेयिवान् ॥ १०२ ॥ तं वृत्तान्तं समाख्याय पत्युस्तनयमार्पयत्। अघटेनाऽघटेनेव सूनुना साऽपि पिप्रिये॥१०३॥ कलहायिष्ट मा कोऽपि मत्पुत्रोऽयमिति ब्रुवन् । ततो देवधरश्चक्रे तदैव द्राक् प्रयाणकम् ।। १०४ ॥ अथाऽधीतकलाकेलि: कलाकेलिमनोरमः । सौन्दर्यसारभुवनमघटः प्राप यौवनम् ॥ १०५ ॥ अथा-ऽङ्ग-बग-कालिङ्ग-तिलङ्ग-मगधादिषु । क्रियासमभिहारेणाऽभ्राम्यद् देवधरोऽन्यदा ॥ १०६ ॥ निःशेषनगरीवर्गमौलिमाणिक्यदामनि । आययौ श्रीविशालायां विशालायां पुनः पुरि ॥ १०७ ॥ युग्मम् ॥ चचाल च तदैवाऽसौ प्रणन्तुमवनीपतिम् । राजाऽवलोकनचिकीरघटोऽपि सहाञ्चलत् ॥ १०८॥ पदे पदे लसत्क्रीडानाटकानां निरीक्षणात् । कौतुकान् दर्शयन् पुत्रं भूपद्वारं जगाम सः ॥ १०९ ॥ द्वाःस्थेनाऽऽवेदितो राज्ञस्ततो राजाऽभ्यनुज्ञया । सोऽविक्षत्'
१प्रातः काले। आलिलिङ्ग। ३ विश् धातोरचतन्याम् ।
॥९॥