________________
श्रीजैन कथासंग्रहः
॥४॥
।। अघटकुमार
चरित्रम् ॥
भूभुजा पुण्यदुर्लभः । निहन्यते कथमयं क्षीरकण्ठोऽतिमुग्धधीः॥ ८४॥'अवरोधं विदुद्राव किमु कोषं मुमोष वा?। कुल्यो वा राज्यमादास्यमानः शत्रुसुतोऽथवा?॥८५॥ व्यनीनशनृपोऽप्येनं नूनं ग्रैवेयकाम्यया। अलं निगृह्य तद्राज्ञे तदेवादाय डोक्यते ॥ ८६ ॥ हृच्चक्षुषा विभाव्यैवं गृहीत्वा कण्ठभूषणम् । मालिनीतनयं तं स त बहिर्देवकुलेऽमुचत् ॥ ८७॥ उपराजं जगामाऽथ तद् ग्रैवेयकमार्पयत् । राजाऽपि मुमुदे तेन निष्कण्टकमभूदिति ॥८८ ॥ इतश्चान्तर्देवकुलमघट: पुण्यकङ्कटः । अभ्रात्पतितवद्धाम्यल्लेपयक्षं निरक्षत ॥ ८९ ॥ स्वतातमिव तं जाननालिलिङ्ग प्रमोदभाक् । अङ्कमारुह्य तत्तुङ्गं कूच पस्पर्श बालकः ॥ ९० ।। जल्पन्तं ताततातेति क्रीडमानं तमङ्कगम् । मुमुदे तदधिष्ठातो तदा यक्षो निरीक्ष्य सः॥ ९१॥ जिह्वयाऽपि मया पित्रा पाल्योऽसौ पुत्रवत्ततः । रात्रेस्त्रियार्मी क्षणवत् तस्य क्रीडाभिरक्षिपत् ॥ १२॥ अथ वासितमासन्ने बने देवधराह्वयम्। निष्पुत्रमश्चक्रयिकं ज्ञात्वा ज्ञानेन यक्षराट् ॥ ९३ ॥ उपेत्य शयनीयस्थं निद्राणमुदलीलपत् । अये ! त्वं शेषे जागर्षीत्येवं मधुरया गिरा ॥ ९४ ॥ स तदा तु प्रबुद्धः सन् शय्यां मुक्त्वा सविस्मयः । बूचे त्वमीश! क इति प्रोक्तो यक्षोऽब्रवीदिति ॥ १५ ॥ कुर्वन् गतागते नित्यं त्वमावससि मद्वने । नोपद्रवयसे किञ्चित् तेन तेऽहं प्रसेदिवान् ॥ ९६ ॥ तद् याचस्वेच्छया रत्ना-दिकमुक्तः सचिवान् । सर्वमस्ति सुतं मुक्त्वा कुलश्रीवल्लिमण्डपम् ॥ ९७ ॥ विना .. १ अन्तःपुरम्।
438393-93-93-938
॥८॥