________________
॥अघटकुमार चरित्रम् ॥
वसुधातलवासवः । विनश्यत्युभयाज्यत्तं कार्य दुर्मन्त्रिराजवत् ॥ ७१ ॥ अद्याऽऽस्थाननिषण्णस्य पुष्पदाम ययाऽर्पितम् । निहत्य तनयं तस्यास्तद्ववेयकमानयेः ॥ ७२ ॥ इत्यादिष्टो नरेन्द्रेण पत्तिरेकस्तदा ययौ । मालिकोपगृहं सायमचारूढोऽतिनिर्दयः॥७३॥ युग्मम् । देव राणक सामन्त ! माण्डलिक कुमारक!। तात! मजीवितेत्यादि मन्मनोल्लासपूर्वकम् ॥ ४ ॥ बलिं तव 'कृषीयाऽहं कुर्वेऽहमवतारणे । कोटीदीपोत्सवान् जीव दुःखमादाय यामि ते॥५॥ एवं हर्षेण वातूला दापयन्ती च तालिकाः । गायन्ती हासयन्ती च स्वेच्छया वत्समात्मनः ।।७६ ॥आरोपयन्ती शिरसि क्षणाद् हृदि कटीतटे। कराम्भोजे क्षणाद् दृष्ट्वा कण्ठाभरणभूषितम् ॥७॥करादाच्छिा तस्याः स-प्रसभं राजपूरुषः । गृहीत्वा डिम्भमुहिड्वे गृध्रराज इवाऽऽमिषम् ॥ ७८॥ पञ्चभिः कुलकम् । तस्य चाऽघटमादाय कामतः सोऽथ शैशवात् । ब्रुवाणम्ताततातेति कूर्च पितुरिवाऽकृषत् ॥७९॥ बाललीलायितेनाऽयममुना मुमुदेतराम् । शिशूनां केलयः कस्य न भवन्ति मुदेऽथवा॥ ८॥ दथ्यौ चैवमनेनाऽहमहितोऽपि कृतः पिता। असकृत्ताततातेति कर्णाऽमृतकिरा गिरा ॥ ८१॥ दुह्यतस्तन्ममाऽमुष्मै निघृणस्य दुरात्मनः । कथमेव क्षतः पाणिर्वक्षः किं न स्फुटिष्यति ? ॥ ८२ ॥ धिग् राजसेवां दुर्वारव्यसनहुमवाटिकाम् । अर्चिष्मत' इवाऽभक्ष्यं नाऽकृत्यं यत्र किञ्चन ॥ ८३ ॥ तदहो ! हृदयाऽन्धेन
कृषातोराशिपि। २ अमेः।
र