SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः चरित्रम् ॥ ॥२॥ 'प्राक्षीरुक्तं दुःखाय जायते ॥ ७॥ तदैवमवनीनाथे पौनःपुन्येन 'पृच्छति । पुरोधा अपि तां वार्तामाविष्कर्तु र प्रचक्रमे ॥८॥ देवाऽस्ति मद्गृहे दासी तस्याः सूनुरजायत । स्थापिता साऽथ शूद्रेति सपुत्राऽपि कुटीरके॥९ ॥ राजोचे विस्मयाटोपस्तहिं ते शरदब्दवत् । वृथाऽसौ सर्वथा सोऽपि प्रोवाच प्रति भूपतिम् ॥ १०॥ नैवाऽभिसन्धिवन्ध्यं मे वचः स्वामिन्निशम्यताम् । बालोऽयं भूपतिर्भावी परिभावी महीभृताम् ।। ११॥ भूपतिः स्माऽऽह भूयोऽपि विपुलं वसुधातलम् । भवत्येषोऽपि भूपाल: किं नो दुःखाकरिष्यति ?॥ १२॥ पुरोधाः पुनरप्यूचे नैतच्छृणु निबन्धनम् । त्वयि जीवति त्वत्पूर्या भूपोऽयं भविता 'विभो!॥१३॥ अत्रार्थे तव दुःखं वा सुखं वाऽप्यस्तु भूपते ! । न भवत्यन्यथा चैतत् प्रस्तरोत्कीर्णवर्णवत् ॥ १४ ॥ श्रुत्वेत्यन्तज्वलन् रोषात् करीषाग्निरिव क्षणात् । अक्षमः मापतिः स्थातुमथाऽऽस्थानं विसृष्टवान् ॥ १५॥ पुरोधाः स्वगृहे गत्वा 'बालादित्यमिवोदितम्। अङ्करमिव कल्पद्रोद्वितीयायामिवोडुपम् ॥१६॥ निधानमिव पुण्यानां क्रीडोद्यानमिव श्रियाम् । राजलक्षणसम्पूर्णमद्राक्षीत्तत्र बालकम्॥१७॥ युग्मम् ।। अचिन्तयच्च धिग्दैवं सृष्टिर्यस्येयमीदृशी। मुमाणिक्यमिदं येन दुष्कुलेन कलङ्कितम् ॥ १८ ॥ अत्यल्पसम्पदः सन्तः पुंमाणिक्यं च दुष्कुले। १प्रच्छ धातोरचतन्याम् । २ शतरि सप्तम्येकवचनम् । ३ प्रोपादारम्भे । सिद्ध ३-३-५१ इत्यनेनात्मनेपदम् । ४ वस्तन्याम ५ बालसूर्यमिव । ६ बालसूर्यमिव । ७ चन्द्रम् । ॥२॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy