________________
श्रीजैन कथासंग्रह ॥१॥
॥अहम् ॥ श्री शंखेश्वर पाश्वनाथाय नमः। ॥श्री प्रेम-मुवनमानु-पद्य-हेमचंद्र सद्गुरुभ्यो नमः ॥
॥अघटकुमार चरित्रम् ॥
॥ अघटकुमारचरित्रम्॥
प्राणिनामसहायानामपि पुण्यवतामिह । अघटस्येव जायन्ते विपदोऽपि हि सम्पदः ॥१॥ अनाऽस्ति भरतेऽवन्तिर्देशो देशशिरोमणिः । श्रीविशाला विशाला च तत्रास्ते भूविभूषणम् ॥ २॥ राजा सुघटितस्तस्यामासीदासीकृतद्विषन् । तस्याऽस्ति रूपलावण्यसुन्दरी सुन्दरीव या ॥ ३ ॥ यामालोक्य विक्षुभ्यन्ति मुनयोऽपि दृढव्रताः । तस्या विक्रमसिंहोऽभूत् पुत्रो जैत्रपराक्रमः ॥ ४॥ पुरोधा ज्ञानगर्भोऽस्ति निमित्तज्ञोऽन्यदा नरः । कश्चिदागत्य तं प्रोचे सभायां कर्णसन्निधौ॥५॥ तदाकर्णनतो मौलिकम्पपूर्व पुरोधसि । सविस्मये तस्य दत्तोत्तरेऽथ स नृपोऽवदत् ॥६॥ विस्मयस्य निमित्तं मे निमित्तज्ञ! निवेदय । सोऽवदद्देव! मा
॥२॥