SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्रीजैन । श्रीयकमुनि चरित्रं। कथासंग्रहः ॥९॥ नित्यं त्रिसन्ध्यं जिनबिम्बार्चनपर उभयकालं प्रतिक्रमणादिनित्यधर्मकार्याणि कुर्वन् राजव्यापारमकरोत् । क्रमेण स सप्तक्षेत्र्यां धनं वपन् जिनेंद्रप्रासादशतं, धर्मशालाशतत्रयं च कारयामास. यतःजिणभवणबिंबपुत्थय-संघसरूवेसु सत्तखित्तेसु ।। ववियं धणं वि जायइ। सिवफलदं अहो अणंतगुणं ॥१॥ क्रमाच्च स श्रीयकोऽपि क्षितिपपार्श्वत: स्वपुत्राय मंत्रिपदं दापयित्वा संसारासारतां भावयन् गुरुपार्श्वे दीक्षांजग्राह। अथैकदा तद्भगिन्या पूर्व गृहीतदीक्षया महासत्या यक्षया पyषणापर्वणि समायाते निजबंधवे तस्मै श्रीयकाय प्रोक्तं, भो महाभाग ! अद्य वार्षिकं महापर्व जैनधर्मानुगानां वर्तते, अतोऽत्र पर्वणि यत्किमपि व्रतपुण्यं क्रियते, तस्यानन्तगुणं शुभफलं जायते, यतः-एगग्गचित्ता जिणसासणंमि। पभावणापूअपरायणा जे ॥ पव्वोववासं खलु जे कुणंति । भवण्णावं ते लहुं संतरंति ॥१॥संवच्छरे चाउम्मासीएसु । अट्ठाहियासु य तिहासु ॥ सव्वायरेण लग्गइ। जिणवरपूआतवाइगुणेसु ॥२॥ अतो भो महाभाग ! त्वमप्यत्र पर्वणि किमपि व्रतं कुरु, इत्यादि प्रतिबोध्य तया प्रथमं स श्रीयको मुनिनमस्कारसहितं प्रत्याख्यानं कारितः, ततः पौरुषी ततः सार्धपौरुषी, ततः पुरिमा, तत एकाशनादि, तावद्यावत्सन्ध्यायांस यक्षयोपवासं कारितः ततः स श्रीयकः साधुर्निशायामकस्मात् पञ्चत्वं प्राप्तः ततः पश्चात्तापं कुर्वती यक्षाऽतीवदुःखिता तस्य श्रीयकमुनेर्गतिज्ञानार्थ संघसहिता कायोत्सर्ग चकार । ततः ************* ॥९॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy