________________
श्रीजैन कथासंग्रहः
। श्रीयकमुनि
चरित्र।
॥८॥
विविधबुद्धीनां । रुखो मौनिर्मलिमसैः॥ एभिः कचैरतः सर्वा-नुच्चखान स तान् क्रुधा॥५॥ रागाधिकः । पुरा वस्त्रा-ण्यनुरूपाणि यो दधौ । विरागाणि तदा तानि । संजग्राह विरागवान् ॥ ६॥ रजांस्यपनयं निन्ये । यः स्वयं व्यसनोदये। प्रतीकारकृते तेषां । रजोहरणमात्तवान् ॥७॥ इत्थमालोच्योपात्तव्रतः स स्थूलभद्रो नृपोपान्ते गत्वा धर्मलाभाशिषं ददौ। एवं तं मुनिवेषधारिणं दृष्ट्वा मनसि चमत्कृतो भूपोऽवदत्, भो स्थूलभद्र ! त्वया किमिदं कृतं ? स्थूलभद्रेणोक्तं, राजन् ! मया आलोचनं कृतं, आ समन्ताल्लोचितं, केशोत्पाटनेन मया लोचः कृतः, यतो भवदीया मंत्रिमुद्रा मया हृदि महाकष्टविधायिनि निश्चिता. यतःहस्ते मुद्रा मुखे मुद्रा । मुद्रा स्यात्पादयोर्द्वयोः । ततः पश्चाद् गृहे मुद्रा। व्यापारः पञ्चमुद्रिकः । ॥१॥ अथैवं त्यक्तगणिकादिसांसारिकसुखं तं विज्ञाय राजा तं प्रशंसति स्म, यथा-धन्यस्त्वं सहसा त्यक्त्वा गणिकादिसुखं द्रुतं । प्राप्त: संयमसाम्राज्य-मनन्तसुखदायकं॥१॥ यतः-धन्यास्ते व्रतदानतत्परधियो नित्यं जिनेंद्रार्चका । धर्मभ्याननिरस्तकल्मषविषाश्चैत्यालयोद्धारकाः ॥ सदिबान्यपि कारयन्ति निपुणास्तेषां प्रतिष्ठा पुनः । सच्छास्त्रश्रवणैककर्मकुशला ये श्रावकाः स्युः क्षितौ ।॥१॥ ततः स स्थूलभद्रो वाचंयमो नृपतये धर्माशिषं दत्त्वा ततो निःसृत्य वने जगाम, तत्र च श्रीसंभूतिविजयगुरुपादान्ते विधिवत्प्रव्रज्यां जग्राह ततो राजा तस्य श्रीयकस्यैव महामात्यमुद्रामर्पयामास । एवमथ स श्रीयकोऽपि