________________
श्रीजैन कथासंग्रहः
2
श्रीयकमुनि चरित्र।
स्वसेवकं कोशागणिकागृहे प्रेषयामास । वेश्यागृहे गतः स नृपसेवकोऽपि चन्द्रशालायां देवांगनातुल्यरूपलावण्योपेतया तया युवत्या पण्यस्त्रिया सह सारिपाशखेलनपरं तं स्थूलभद्रं प्रणम्य विज्ञपयामास, भो स्थूलभद्र ! नंदराजा त्वां मंत्रिमुद्रांगीकरणाय समायति । इत्युक्त्वा तेन सकलमपि शकडालमंत्रिमरणस्वरूपं तस्मै निवेदितं. एवं निजजनकमरणं विज्ञाय क्षणं वज्राऽऽहत इव स्थूलभद्रो विचारशून्यो बभूव, नयनाभ्यामश्रुपातपुरस्सरं तांबूलादि परित्यज्य दुतमेव पुनः पश्चादागमनं च प्रतिश्रुत्य कोशागृहानिःसृत्य स्थूलभद्रो भूपोपांते गत्वा तं प्रणनाम । तदा राज्ञा कथितं, भो स्थूलभद्र ! अधुना त्वमेव त्वदीयजनकमंत्रिमुद्रां गृहाण । स्थूलभद्रेण प्रोक्तं-स्वामिन् ! तदर्थ किचिद्विमृश्य भवद्भ्यो विज्ञपयिष्यामि । इत्युक्त्वा स्थूलभद्रो राजसभाया विनिर्गत्य निकटस्थाऽशोकवाटिकायां प्रविश्येति निजहदि दथ्यौ-जानाम्यमात्यमुद्रेयं । पितुर्मारणवैरिणी॥ तत्त्यागादधुनात्राहं । पश्याम्यस्या विडंबनां ॥१॥हो शौचसखे विवेकभगवन् वैराग्यभूमीधव। त्वं मातः करुणे क्षमे भगवति ब्रीडासखि श्रूयतां ॥ यूयं तावदनुक्रमागततया सर्वाणि बंधून्यपि । त्यक्त्वा मामिह यौवनेतिगहने क्व प्रेषितानि ध्रुवं ॥२॥ इहानुभूयते दौ-रम्यक्षं च निरीक्ष्यते ॥ राजा न मित्रतां याति । याति चेत्प्रलयस्तदा ॥३॥ नादास्ये नृपतेर्मुद्रां । प्रान्ते परिभवप्रदां ॥ जिनेंद्रस्य ग्रहीष्यामि । महोदयनिबन्धनां ॥४॥ स्थानं
इहानुभूयात भागततया सर्वाणि वायभूमीयवालातत्यागादधुना
lloll