SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ । श्रीयकमुनि श्रीजैन कथासंग्रहः निजपिता कवं संहारितः ? तदैव लब्धावसरेण श्रीयकेण सर्वमपि वररुचेविप्रस्य स्वरूपं राज्ञोऽग्रे निवेदितं । तन्निशम्य कोपाऽतुरेण राज्ञा स वररुचिर्विप्रः स्वदेशान्निष्कासितः, ततः शकडालमंत्रिणः शरीरस्याग्निसंस्कारकरणानंतरं राजा श्रीयकं समाहूय प्रोक्तवान्, भो श्रीयक ! त्वं नूनं प्रशस्यो मदीयसेवकशिरोमणिरसि, यादृशः शास्त्रे सेवको वर्ण्यते, तादृश एव त्वं मया परीक्षितोऽसि. यत:युद्धकालेऽग्रगो यः स्यात् । सदा पृष्ठानुगः पुरे॥ प्रभोद्वाराश्रितो हये। स भवेद्राजवल्लभः॥१॥ तथेति प्रब्रुवन् प्रोक्तः । कृत्याकृत्यं विचक्षणः॥करोति निर्विकल्पं यः। स भवेद्राजवल्लभः॥२॥भृत्यैर्विरहितो राजा। लोकानुग्रहकारिभिः॥ मयूखैरिव दीप्तांशु-स्तेजस्व्यपि न शोभते।॥३॥अतो भो श्रीयक! त्वं मंत्रिमुद्रामंगीकुरु, तदा श्रीयको भणति, हे स्वामिन् ! मम ज्यायान् सहोदरः स्थूलभद्रनामाऽस्ति, सच कोशावेश्यागृहे निवसति, अतस्तं समाहूय तस्मै मंत्रिमुद्रां यच्छत, तत् श्रुत्वा राजा दध्यौ, अहो ! ईदृशो निर्लोभी पुरुषो मया कोऽपि न दृष्टः. यतः-दृश्यन्ते लोभिनो लोकाः । प्रायो बहुतरा भुवि ।। लोभादब्धौ विदेशे वा। गच्छन्ति बहवो जनाः॥१॥ दंतैरुच्छलितं धिया तरलितं पाण्यहिणा कंपितं। दृग्भ्यां कुड्मलितं बलेन गलितं रूपश्रिया प्रोषितं ।। प्राप्तायां यमभूपतेरिह जरावाल्यामयं सर्वतो। लोभः केवलमेक एव सुभटो हत्यत्तने नृत्यति॥२॥अथैवं श्रीयकोक्तं निशम्य राजा स्थूलभद्रमाकारयितुं. un
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy