________________
*श्रीयकमुनि
चरित्रं ।
कथासंग्रहः
॥५॥
नवि जाणइ । जं सगडाल करेय ॥ नंदराय मारी करीः। सोरीयो राज ठवेय ॥१॥ एवं नगरमध्ये . प्रतिरथ्यायां महता स्वरेण जल्पतां बालानां वचांसि श्रुत्वा राजा दध्यौ, नूनमेषां बालानां वचांस्यन्यथा न संभवन्ति, यतः-अमोघा वासरे विद्युदमोघं निशि गर्जितं ॥ नारीबालवचोऽमोघ-ममोघं देवदर्शनं ॥१॥ इति बालवचःसत्यतां विज्ञाय मंत्रिगृहे च सिंहासनच्छत्रचामरादिसामग्री निष्पाद्यमानां च श्रुत्वा नंदराजा शकडालसचिवाय चुकोप, सकुटुंबं व मंत्रिणं हेतुं चिन्तयामास. कुतोऽपि राज्ञस्तमभिप्राय विज्ञाय मंत्रिणैकदिवसांते मृत्युकारकं विषं भक्षितं । ततः कृतपर्यन्ताराधनो मंत्री श्रीयकमाहूय प्राह, हे वत्स ! नंदराजाऽस्मत्कुटुंबोपरि रुष्टोऽस्ति, तेन स सकुटुंबं मां मारयितुमभिलषति । मया च विषं भक्षितमस्ति, तेन संध्यायां नूनं मे मरणं भविष्यति । अतस्त्वया राजसभायां नृपसमक्षं खड्गेन मदीयमस्तकं छेद्यं, यथा कुटुंबरक्षणं स्यात्। तन्निशम्य हृदयेऽत्यंत दुःखीभूतेनाऽपि श्रीयकेण पितुराग्रहतो निजकुटुंबरक्षार्थ तत्प्रतिपन्नं । अथ शकडालोऽपि यावद्राजानं नन्तुं राजसभायां प्राप्तस्तावद्राजा ततः पराङ्मुखो बभूव. इतः खड्गपाणिः श्रीयकोऽपि तदैवाग्रे समागत्यावदत्, यः कोऽपि राज्ञो द्रोहकारी भविष्यति तस्य मस्तकमनेनैवासिना छेत्स्यामि, इत्युक्त्वा तेन द्रुतमेव निजपितुः शकडालस्य शिरः कमलनालवत् खड्गेन भूमौ निपातितं, तदैव राजा सन्मुखीभूयावदत्, भो श्रीयक ! त्वया मुधैव
॥५॥