________________
श्रीजैन कथासंग्रहः
॥४॥
ज्ञानदानेन । निर्भयोऽभयदानतः ॥ अन्नदानात्सुखी नित्यं । निर्व्याधिर्भेषजाडवेत् । ॥१॥ अथैवंविधां तदीयां प्रसिद्धिं कूटामवधार्य चतुरचक्रवर्ती मंत्रीशकडालस्तेन द्विजेन रात्री गंगायां गुप्तीकृतां दीनारग्रन्विं नियुक्तनिजगूडपुरुषैरानिनाय । अथ प्रातर्यावत्तत्रिजग्रंथिग्रहणेच्छया स वररुचिर्द्विजस्तत्राऽऽगत्य गंगां स्तौति, तावत्स राजाऽपि मंत्रियुतस्तदीयमायां विलोकयितुं तत्र समागतः-मंत्रियुतं राजनं समागतं विलोक्य स शठद्विजोऽपि महता स्वरेण गंगां स्तुवन् जलमध्ये स्वगुप्तीकृतदीनारग्रन्थियंत्रं पादेन चालयामास, परंस तां दीनारग्रंथिं नाप्तवान् । तदा शकडालः प्राह-भो द्विजोत्तम! अद्य किं भवदीप्सितं गंगा न प्रयच्छति ? तदा विलक्षीभूतो द्विजोऽवदत्, न ज्ञायते यदद्य गंगा किमर्थ नार्पयति, अग्रे तु सा मम मार्गितं ददौ, अद्य न ददाति, नूनं ममाभाग्यमधुना समायातं । यतः-अभाग्येऽभ्युदिते पुंसां । दारिद्यमेति लीलया ॥ भाग्योदये तु गीर्वाणा । भवन्ति वशगाः स्फुटं ॥१॥ ततो मंत्रिणा सा दीनारग्रंथिरानाय्य राज्ञो दर्शिता, कथितं च द्विजस्य कूटमायास्वरूपं, समर्पिता च तस्मै द्विजाय तदीया सा दीनारग्रंथिः, ततो लज्जावनम्रमस्तकः स द्विजो लोकैर्धिक्कृतः. अथ स द्विजो मंत्रिणि वैरं वहन् छलं विलोकयति स्म । अथान्यदोत्पन्नकूटबुद्धिः स द्विजो मंत्रिगृहे श्रीयकस्य विवाहसामग्री जायमानां विज्ञायैवंविधामेकां गाथांपाठशालाबालकान् चणकादिखाद्यपदार्थविलोभ्य पाठयामास. यथा-नंदराय
॥४॥