________________
श्रीजैन कथासंग्रहः
11311
***
❖❖❖❖❖❖❖❖*
ततः स भूपोऽपि तस्मै कविवराय द्विजन्मने किमपि न दत्ते । एवं किमपि पारितोषिकमलभमानः स द्विजो विषादं प्राप्तवान्, अथैकदा मंत्रिणा तस्य मिथ्यादृष्टेर्विप्रस्य संसर्गपरिहाराय महीपतये प्रोक्तं, स्वामिन् ! यानि काव्यानि स द्विजोऽत्र भवदग्रे नित्यं जल्पति, तानि परकविकृतानि जीर्णान्येव, न तु तत्कृतानि नविनानि । यतस्तानि काव्यानि तु मदीयपुत्र्योऽपि जानन्ति । राज्ञोक्तं तदा तद्विषये प्रतीतिः क्रियते. मंत्रिणाऽपि तत् प्रतिपद्यैकदा सप्ताऽपि ता निजकन्या राजसभामध्ये यवनिकांतरिताः स्थापिताः, तत्कन्यावृत्तान्तमजानन् स कंविराजो वररुचिरपि प्रातर्नृपसभायां समागत्य स्वकृतनविनसुंदराष्टाधिकशतकाव्यानि भूपाय श्रावयामास । तदैकवारश्रवणस्मृतिशक्तियुतया प्रथमकन्यया तानि सर्वाण्यपि काव्यान्यस्खलितानि तत्र सभायां श्रावितानि ततो द्वितीयया, ततस्तृतीयया, ततश्चतुर्थ्या, एवं यावत्सप्तम्यापि कन्यया तान्येव काव्यानि श्रावितानि ततश्चमत्कृतो राजा जगौ भो मंत्रिन् ! तवैताः पुत्र्यः साक्षात् भारत्य एवावतीर्णाः इत्युक्त्वा राजा तस्य वररुचे राजद्वारप्रवेशनिरोधमकरोत् । अथ स द्विजोऽष्टोत्तरशतकाव्यैः प्रत्यहं प्रातगंगां स्तुवन् ततो दीनाराणामष्टोत्तरशतं लभते इति प्रसिद्धिः सर्वत्र लोके प्रससार एवंविधं तन्माहात्म्यं दृष्ट्वा लोकास्तं स्तुवन्ति, यथाऽसौ द्विजो भाग्यवान् प्रज्ञावांश्च वर्तते, नूनं पूर्वभवेऽनेन ज्ञानामाराधितं यतः -ज्ञानवान्
**
***
। श्रीयकमुनि चरित्रं ।
॥३॥