________________
श्रीजैन
। श्रीयकमुनि
चरित्र
कथासंग्रहः
॥१०॥
प्रसन्नया शासनदेव्या सा यक्षा साध्वी महाविदेहक्षेत्रे श्रीसीमंधरस्वामिपावें मुक्ता । तदा प्रमुदितया तया यक्षया स्वचित्तसंशयस्वरूपं भगवते पृष्टं । तदा भगवता प्रोक्तं, भो महासति ! स श्रीयको मुनिः स्वायुषः क्षयादेव मृतोऽस्ति, न पुनस्तपसा, अतस्त्वया शोको न कर्तव्यः, यतो न केनाऽपि स्वायुषो वृद्धिः क्रियते. यत:-नो विद्या न च भेषजं न च पिता नो बान्धवा नो सुताः । नाभीष्टा कुलदेवता न जननी स्नेहानुबन्धान्विता ॥ नार्थो नो स्वजनो न वा परिजनः शारीरिकं नो बलं । नो शक्तास्त्रुटितं सुरासुरवराः संधातुमायुर्भुवं ॥१॥ ततस्तया यक्षया पृष्टं, हे भगवन् ! स मे भ्रातामुनिः कस्यां गतौ समुत्पन्न: ? भगवता प्रोक्तं, स समाधिमुपगतो मुनिः शुभभावनां भावयन् मृत्वा प्रथमे सौधर्मे देवलोके भासुरद्युतियुतः सुरो जातोऽस्ति, तपःप्रभावाच स क्रमेण मुक्तिं यास्यति। ततो मुदितमानसा सा साध्वी यावत्ततश्चलति, तावद्भगवता चूलिकाचतुष्टयं व्याख्यातं, तया च निजस्मरणशक्त्या तदखिलं स्वहृदये धारितं । ततः शासनदेव्या सा समुत्पाट्य पुनः पाटलीपुत्रनगरे श्रीसङ्घमध्ये मुक्ता । ततः सा श्रीगुरूणां समीपे सङ्घसमक्षं श्रीयकम्य महामुनेः सुगतिप्राप्त्यादिकं सकलं स्वरूपं निवेदयामास, तच्चूलिकाचतुष्टयं चापि गुरुभ्यः समर्पितं । श्रीगुरुभिरपिततश्चूलिकाद्वयं श्रीदशवैकालिकसूत्रे प्रक्षिप्तं, अपरं च चूलिकाद्वयमाचारांगसूत्रप्रान्ते प्रक्षिप्तं. ततः सा यक्षा साध्वी स्वयं विशेषतस्तपः कर्मणि
॥१०॥