SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीजैन । श्रीयकमुनि चरित्र कथासंग्रहः ॥१०॥ प्रसन्नया शासनदेव्या सा यक्षा साध्वी महाविदेहक्षेत्रे श्रीसीमंधरस्वामिपावें मुक्ता । तदा प्रमुदितया तया यक्षया स्वचित्तसंशयस्वरूपं भगवते पृष्टं । तदा भगवता प्रोक्तं, भो महासति ! स श्रीयको मुनिः स्वायुषः क्षयादेव मृतोऽस्ति, न पुनस्तपसा, अतस्त्वया शोको न कर्तव्यः, यतो न केनाऽपि स्वायुषो वृद्धिः क्रियते. यत:-नो विद्या न च भेषजं न च पिता नो बान्धवा नो सुताः । नाभीष्टा कुलदेवता न जननी स्नेहानुबन्धान्विता ॥ नार्थो नो स्वजनो न वा परिजनः शारीरिकं नो बलं । नो शक्तास्त्रुटितं सुरासुरवराः संधातुमायुर्भुवं ॥१॥ ततस्तया यक्षया पृष्टं, हे भगवन् ! स मे भ्रातामुनिः कस्यां गतौ समुत्पन्न: ? भगवता प्रोक्तं, स समाधिमुपगतो मुनिः शुभभावनां भावयन् मृत्वा प्रथमे सौधर्मे देवलोके भासुरद्युतियुतः सुरो जातोऽस्ति, तपःप्रभावाच स क्रमेण मुक्तिं यास्यति। ततो मुदितमानसा सा साध्वी यावत्ततश्चलति, तावद्भगवता चूलिकाचतुष्टयं व्याख्यातं, तया च निजस्मरणशक्त्या तदखिलं स्वहृदये धारितं । ततः शासनदेव्या सा समुत्पाट्य पुनः पाटलीपुत्रनगरे श्रीसङ्घमध्ये मुक्ता । ततः सा श्रीगुरूणां समीपे सङ्घसमक्षं श्रीयकम्य महामुनेः सुगतिप्राप्त्यादिकं सकलं स्वरूपं निवेदयामास, तच्चूलिकाचतुष्टयं चापि गुरुभ्यः समर्पितं । श्रीगुरुभिरपिततश्चूलिकाद्वयं श्रीदशवैकालिकसूत्रे प्रक्षिप्तं, अपरं च चूलिकाद्वयमाचारांगसूत्रप्रान्ते प्रक्षिप्तं. ततः सा यक्षा साध्वी स्वयं विशेषतस्तपः कर्मणि ॥१०॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy