________________
'श्रीयकमुनि
चरित्रं।
कथासंग्रहः
प्रवृत्ता। श्रीगुरुभिरपि सभायामेवंविध उपदेशो दत्तो, यथाअष्टम्यादितिथिषु तपः कुर्वाणाः शुभभावपरा जनाः स्वर्गसुखान्यनुभूय प्रान्ते मुक्तिसुखभाजो भवन्ति, यतस्तप एव निकाचितकर्मणामपिच्छेदकमुच्यते, यतः-यद् दूरं यद दुराराध्यं । यच्च दूरे व्यवस्थितं। तत्सर्व तपसा साभ्यं । तपो हिदुरतिक्रमं ॥१॥ पोरिसी चउत्थ छठे। काउं कम्मं खवंति जं मुणिणो॥ तं नो नारइजीवा। वाससयसहस्सलोहि ॥शा इत्युपदेशं निशम्य सा यक्षा साव्यपि विशेषतस्तपस्तप्त्वा क्रमात्स्वर्ग गता। एवं स शुभभावपरायणः श्रीयकमुनिः स्वल्पेनापि तपसा शुभगतिभाग जातः, इति विचार्य भव्यैः सत्तपसि आदरो विधेयः।
॥ इति श्रीयकमुनिचरित्रं समाप्तं ॥ श्रीरस्तु ।
॥११॥
॥११॥