________________
श्रीजेन
कथासंग्रहः
॥१॥
****
॥ अर्हम् ॥
श्री शंखेश्वर पार्श्वनाथाय नम : ।
॥ श्री प्रेम-भुवनभानु-पद्म- हेमचंद्र सद्गुरुभ्यो नमः ॥
(श्रीशुभशील गणिविरचितं)
॥ अथ श्रीयकमुनिचरित्रं ॥
बलेन कार्यमाणोऽपि । तपःकर्म पुमान् स्फुटं ॥ लभते स्वर्गसौख्यानि । द्रुतं श्रीयकवत् स्फुटं ॥ १ ॥ पाटलिपुत्राभिधे नगरे अनेक - जिनेंद्रमंदिरसुंदरे नवमो नंदाख्यो भूपो राज्यं करोति स्म । तस्य कल्पकवंशावतंसः शकडालनामा महामात्योऽभूत् । तस्य मंत्रिणश्च लक्ष्मीवत्यभिधाना पल्यासीत् । तौ द्वावपि च दंपती जिनधर्मे स्थिरचित्तावास्तां । यतः - कुले जन्मापरोगत्वं । सौभाग्यं सौख्यमद्भुतं ॥ लक्ष्मीरायुर्यशोविद्या । हृद्या रामास्तुरंगमाः ॥ १ ॥ मातंगा जनलक्षैश्च । परिचर्यायुतं तथा । चक्रिशक्रेश्वरत्वं च । धर्मादेव हि देहिनां ॥ २ ॥ क्रमात्तयोः पुष्पदंततुल्यौ स्थूलभद्रश्रीयकाभिधौ सुतौ
****
*******
। श्रीयकमुनि चरित्रं ।
॥१॥