SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीकयवत्राचरित्रम्। ॥३८॥ संसारकान्तारविच्छेदविधानदक्षाऽभिरूपां दीक्षां दातुमुररीचक्रे । ततः प्रमोदभागसौ प्रभुमभिवन्द्य गृहमागत्य पुत्रेभ्यः सर्व समर्प्य प्रेयसीसमीपमागत्य जगाद-प्रेयस्यः ! अस्मिन् संसारे महानेव क्लेशो दृश्यते, अतोऽहं सकलदुःखक्षायिकां शिवसुखदायिकां दीक्षां लातुमना अस्मि, तदाता चिरे; स्वामिन् ! वयमपि तामेव कामयामहे । इत्थं दीक्षां जिघृक्षुः सप्तप्रेयसीयुक्तः सकलदीनानाथेभ्यो भूरि दानं ददत्कयवन्ना महोत्सवेन वीरप्रभुपार्श्वे दीक्षां ललौ। निरतिचारं संयम परिपाल्य विविधं दुष्करं तपः समाचरन् प्रभुणा सह विहरन् ध्यानानलेन चितकर्मकाष्ठं भस्मसाद्विधाय कयवन्नाख्यो महामुनिः कैवल्यज्ञानमाप। ततः शिवसुखमन्वभूदिति। अहो !! ईदृशाऽद्भुतप्रभावशालिसुपात्रदानं सर्वेषां श्लाघ्यं नमस्यमिति सर्वरेव सुखलिप्सुभिर्भव्यैस्तदवश्यं सहर्ष विधेयमेवेति शम्। १९८"बाणाष्टनन्दधरणीमितविक्रमाऽब्दे, शुक्ले द्वितीयनभसि प्रतिपत्सुरेज्ये। ख्यातञ्चरित्रमनघं परिपूर्णमेतच्चक्रे यतीन्द्रविजयः कृतिनां सुखाय॥१॥ ॥३८॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy