SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥३७॥ श्रेष्ठिन् ! सर्वमेतत्सुपात्रदानस्यैव प्रभावमवेहि । पुराजन्मनि शालिग्रामनगरे कस्यचिदाभीरस्य पुत्र आसीः, पितर्युपरते तव माता रङ्कतामुपगता, एकदा कुत्रचित्पर्वदिवसे सर्वेषामोकसि क्षीरपाको जज्ञे, त्वमपि मातरं पायसं ययाचिषे । यद्यपि निर्धनत्वात्क्रिमपि कर्त्तुं न शशाक तथापि पुत्रवात्सल्याल्लोकानां पार्श्ववर्त्तिनां सदनात्तत्सामग्री पयः शर्करादिकामानीय सम्पच्य स्थाल्यां परिवेष्य त्वन्माता कुत्रापि कस्यापि हेतोरगमत् । तत्रावसरे कश्चिन्मुनि गचर्यं तत्रागत्य धर्मलाभं दत्तवान् । तमालोक्य महता हर्षेण तस्मै तत्क्षीरपाकं प्रचुरं प्रदत्तवान् पयसो बाहुल्याद् द्रुतं तदधिकं तत्पात्रे पपात तदपि तव मनसि मनागपि खेदो नाऽभूत्, प्रत्युत महान् हर्ष एव जज्ञे । धर्मलाभं प्रदाय तस्मिन् समायाता माता, तत्पात्रं लिहन्तं पुत्रमवलोक्य मनस्यशोचत् अरे ! मम पुत्रस्य कियती क्षुधाऽऽसीत्, यदेतसवमनात् । तदनु स्तोकेनैव कालेन स्वायुषः क्षये मृत्वा भवेऽस्मिन् धनदत्तश्रेष्ठिनः पुत्रोऽभूः । स त्वं कयवना पुराकृतसुपात्रदानमाहात्म्यादिहाऽपरिमितां श्रियमलब्धाः । इत्थं भगवत आस्यादात्मनः पूर्वभववृत्तान्तमाकर्ण्य सञ्जातवैराग्यपरिपूर्णतमः कृताञ्जलिः कयवन्ना भगवन्तमित्याख्यत् भगवन् ! अहमिदानीं संसारमसारं महाघोरफलदातारं जानामि, अत एतस्माद्यथाऽहं सुखेन तरेयं तथा कृपामानीय तूर्णं विधेहि । प्रभुरपि योग्यं मत्वा श्रीकपयन्त्राचरित्रम् । ॥३७॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy