SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीकयवत्राचरित्रम् । ॥३६॥ न कुर्वन्ति, नूनं ते जीवाः प्रान्ते पश्चात्तापं लभन्ते । अत एवाऽतिभीषणदहनज्वालाऽवलीढे सद्यनीव शोकमोहजराऽऽधिव्याधिसमाकुलेऽस्मिन् संसारे भव्याशयैः प्राणिभिः क्षणमपि नैव स्थेयम् । तत्र चिन्तामणिरत्नमिवातिदुरापमिदं मनुष्यजनुर्ज्ञात्वा विज्ञैः कदापि नैव प्रमादो विधातव्यः । महता कष्टेन लब्ध कोटिद्रव्यमेकस्याः काकिण्या अर्थे यथा महामूढास्त्यजन्ति तथा कियन्तः प्राणवन्तस्तीर्थेश्वरप्ररूपितं शाश्वतं विशुद्धं नित्यानन्दसुखप्रदमाहतं धर्म हित्वा क्षणिकं वैषयिकं सुखं वाञ्छन्ति। येयं विश्वमोहिनी लक्ष्मी: प्रेयसी भाति, सातु जलधिजलकल्लोललोला दरीदृश्यते, आयुरपि देहिनां कुशाग्रलग्नजलबिन्दुकल्पमस्ति, सौन्दर्यमपि विद्युद्विलाससोदरमेवास्ति, एवमाधिपत्यमपि स्वप्नलीलेव भासते, यच्च-सांसारिकं सुखं तदपि सन्ध्याभरागमिव क्षणभङ्गुरमेव वरीवृत्यते, अतः सर्वः सर्वप्रपञ्चं विहाय शर्मप्रदोधर्म एव समाराधनीयः। भगवतोऽमृतमयीं धर्मदेशनां पायम्पायं द्वादशपर्षदः प्रमोदं कमप्यगदनीयमेव लेभिरे, यथाशक्ति भूयांसो भव्या व्रतनियमादिकमपि जगृहुः । देशनान्ते च कयवनाशाहः प्रभुमेवमपृच्छत्, स्वामिन् ! मया भवान्तरे किमकारि सुकृतं येनात्र जन्मनि ममेदृशी सम्पदुदभवत्? तदाऽब्रवीद भगवान्१. पायम्पायं पीत्वा पीत्वा। ॥३६॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy