________________
श्रीजैन कथासंग्रहः
श्रीकयवत्राचरित्रम् ।
॥३६॥
न कुर्वन्ति, नूनं ते जीवाः प्रान्ते पश्चात्तापं लभन्ते । अत एवाऽतिभीषणदहनज्वालाऽवलीढे सद्यनीव शोकमोहजराऽऽधिव्याधिसमाकुलेऽस्मिन् संसारे भव्याशयैः प्राणिभिः क्षणमपि नैव स्थेयम् । तत्र चिन्तामणिरत्नमिवातिदुरापमिदं मनुष्यजनुर्ज्ञात्वा विज्ञैः कदापि नैव प्रमादो विधातव्यः । महता कष्टेन लब्ध कोटिद्रव्यमेकस्याः काकिण्या अर्थे यथा महामूढास्त्यजन्ति तथा कियन्तः प्राणवन्तस्तीर्थेश्वरप्ररूपितं शाश्वतं विशुद्धं नित्यानन्दसुखप्रदमाहतं धर्म हित्वा क्षणिकं वैषयिकं सुखं वाञ्छन्ति। येयं विश्वमोहिनी लक्ष्मी: प्रेयसी भाति, सातु जलधिजलकल्लोललोला दरीदृश्यते, आयुरपि देहिनां कुशाग्रलग्नजलबिन्दुकल्पमस्ति, सौन्दर्यमपि विद्युद्विलाससोदरमेवास्ति, एवमाधिपत्यमपि स्वप्नलीलेव भासते, यच्च-सांसारिकं सुखं तदपि सन्ध्याभरागमिव क्षणभङ्गुरमेव वरीवृत्यते, अतः सर्वः सर्वप्रपञ्चं विहाय शर्मप्रदोधर्म एव समाराधनीयः।
भगवतोऽमृतमयीं धर्मदेशनां पायम्पायं द्वादशपर्षदः प्रमोदं कमप्यगदनीयमेव लेभिरे, यथाशक्ति भूयांसो भव्या व्रतनियमादिकमपि जगृहुः । देशनान्ते च कयवनाशाहः प्रभुमेवमपृच्छत्, स्वामिन् ! मया भवान्तरे किमकारि सुकृतं येनात्र जन्मनि ममेदृशी सम्पदुदभवत्? तदाऽब्रवीद भगवान्१. पायम्पायं पीत्वा पीत्वा।
॥३६॥